पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
सटीकलोचनोपेतध्वन्यालोके


तथा ह्याद्यस्तावत्प्रभेदो वाच्याद्दूरं विभेदवान् । स हि कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूपः । यथा-

 भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण ।

 गोलाणइकच्छ कुडङ्गवासिण। दरिअसीहेण ।।


लोचनम्

कगोचरो रसध्वनिरिति, स च ध्वनिरेवेति, स एव मुख्यतयात्मेति ।

 यदूचे भट्टनायकेन-'अंशत्वं न रूपता' इति, तद्वस्त्वलङ्कारध्वन्योरेव यदि नामोपालम्भः, रसध्वनिस्तु तेनैवात्मतयाङ्गीकृतः, रसचर्वणात्मनस्तृतीयस्यांशस्या. भिधाभावनांशद्वयोत्तीर्णत्वेन निर्णयात् , वस्त्वलङ्कारध्वन्यो रसध्वनिपर्यन्तत्वमेवेति वयमेव वक्ष्यामस्तत्र तत्रेत्यास्तां तावत् । वाच्य॑सामर्थ्याक्षिप्तमिति भेदत्रयव्यापकं

बालप्रिया

ध्वनिरितीत्यनन्तरमुच्यत इति शेषः । वस्त्वादिध्वनितो विशेषमाह-स चेति । चस्त्वर्थे । ध्वनिरेव व्यंग्य एव, न वाच्य इत्येवकारार्थः । इतीति हेतौ । स एव रसध्वनिरेव । एवकारेण वस्त्वादिध्वनेर्व्यवच्छेदः । मुख्यतया आत्मेति । वस्त्वादिध्वनेरौपचारिकमेवात्मत्वं, न मुख्यमिति भावः । इतीत्यनन्तरमुच्यत इति शेषः ।

 तदिति । तद्वचनमित्यर्थः । यदि नामेति निश्चये सत्यनिश्चयवचनम् । उपालंभः प्रतिक्षेपः, आत्मत्वनिषेध इति यावत् । भवेदिति शेषः । तद्वचनं वस्त्वलंका- रध्वन्योरेवात्मत्वप्रतिषेधरूपं स्यान्न रसध्वनेरित्यर्थः । कुत इत्यत्राह-रसेति । कथमिदमवगतमित्यत्राह-रसचर्वणेत्यादि निर्णयादित्यन्तम् । वस्त्वलंकारध्वन्यो- रात्मत्वप्रतिषेधोऽस्मदभिमत एवेति तत् सिद्धसाधनमित्याह-वस्त्विति । रसध्व- निपर्यन्तत्वमेवेति । वाच्ययोर्वस्त्वलंकारयोरिव ध्वन्यमानयोरपि तयोः विभावादिरू- पत्वेन कस्यचिद्रसस्य व्यञ्जकतया पर्यवसानादसध्वनिविश्रान्तत्वमेवेत्यर्थः । विश्रान्त- धामत्वकृतं हि मुख्यमात्मत्वं, तच्च रसध्वनेरेव । वस्त्वलंकारध्वन्योस्तु ध्वन्यमानत्व- कृतो वाच्यादुत्कर्ष इत्यमुख्यमात्मत्वम् । तदपेक्षया च 'ध्वनिः काव्यात्मेति सा- मान्येनोक्तिरिति भावः । 'वाच्यसामर्थ्याक्षिप्तमिति क्लीवैकवचनान्तत्वेन निर्देशाद्वस्तु मात्रमित्यस्यैव विशेषणमिति भ्रमः स्यादतस्तन्निवृत्तये व्याचष्टे-वाच्यसामर्थ्या क्षिप्तमिति । भेदत्रयेति । वाच्यसामर्थ्याक्षिप्तमित्यस्य लिंगवचनयोर्विपरि-


रत्यादिनापि संस्कारो जन्यत इति साहित्यदर्शनस्य स्वतन्त्रसिद्धान्त आगूरितो भव- तीति बोध्यम् ।

 १. 'वाच्यसामर्थ्याक्षिप्तमित्यस्य प्रत्यासत्या वस्तुमात्रेणैव कश्चिदन्वयं मा बो- धीत्याह-वाच्यसामर्थ्याक्षिप्तमित्यादि । तथा च तस्यालङ्कारादिष्वप्यन्वयात वा-