पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
प्रथमोद्द्योतः

लोचनम्

सामान्यलक्षणम् । यद्यपि हि ध्वननं शब्दस्यैव व्यापारः, तथाप्यर्थसामर्थ्यस्य सहकारिणः सर्वत्रानपायाद्वाच्यसामर्थ्याक्षिप्तत्वम् । शब्दशक्तिमूलानुरणनव्यङ्गयेऽप्यर्थसामर्थ्यादेव प्रतीयमानावगतिः, शब्दशक्तिः केवलमवान्तरसहकारिणीति वक्ष्यामः । दूरं विभेदवानिति । विधिनिषेधौ विरुद्धाविति न कस्यचिदपि विमतिः । एतदर्थं प्रथमं तावेवोदाहरति-

'भ्रम धार्मिक विस्रब्धः स शुनकोऽद्य मारितस्तेन ।
गोदावरीनदीकूललतागहनवासिना दृप्तसिंहेन ।।

बालप्रिया

णामेनालंकारा रसादय इत्यनयोरपि योजना कार्येति भावः । 'वाच्यसामर्थ्याक्षिप्त' इति पाठे तु अर्थ इत्यस्य विशेषणम् । सामान्यलक्षणमिति । वाच्यसामर्थ्याक्षिप्तत्वं वस्तुध्वन्यादिभेदत्रयानुगतो धर्म इत्यर्थः । नन्वभिधादिव्यापारवत् ध्वनन व्यापारस्य शब्दाश्रयत्वाद्वस्त्वादिध्वनेरुक्तलक्षणमसम्भवोति शङ्कते-यद्य पीति । समाधत्ते तथापीत्यादि । ननु शब्दशक्तिमूले ध्वनौ शब्दशक्तिरेव सहकारिणी नेतरेत्यत आह-शब्देत्यादि । तर्हि मा भूच्छब्दशक्तिरित्यत्राह-शब्दशक्तिरिति । अवान्तरसहकारिणी अर्थसामर्थ्योपकारिणी । वक्ष्याम इति । शब्दशक्तिमूलप्रभेदनिरूपण इति शेषः । वृत्तौ 'आद्यःप्रभेद' इति । विधिनिषेधादिरूपवस्तुमात्ररूपो भेद इत्यर्थः । दूरं विभेदवानिति । अत्यर्थं भिन्न इत्यर्थः । आत्यन्तिकं भेदमुपपादयति लोचने-विधीत्यादि । विधिनिषेधौ एकस्याः क्रियायाः विधिनिषेधश्च । विरुद्धाविति । विरोधो नाम युगपदेकत्र वृत्तित्वाभावो, भिन्नत्वं वा । इतीति प्रकारे, इत्यत्रेत्यर्थः । विपरीता मतिर्विमतिःएतदर्थं अविमत्यर्थम् । विमत्यभावाद्हेतोरिति यावत् । यद्वा-एतदर्थ आत्यन्तिकभेदप्रदर्शनार्थम् । तावेव वाच्यव्यंग्यभूतौ विधिनिषेधावेव । यथेत्यस्य व्याख्यानं-उदाहरतीति। अन्यत उद्धृत्य तत्प्रतिपादकवाक्यानि आहरति प्रबन्धमिमं प्रापयतीत्यर्थः ।

 छायां पठति-भ्रमेत्यादि । विस्तब्धमिति च पाठः । 'गोदानदीकच्छनिकुञ्जवासिनेति छाया। तत्र गोदापदस्य गोदावरीति, कच्छादिपदयोः कूललतागहनेति च विव-


च्यसामर्थ्याक्षिप्तञ्च वाच्यसामाक्षिप्ताश्च वाच्यसामर्थ्याक्षिप्ताश्च वाच्यसामर्थ्याक्षिप्तमिति 'नपुंसकमनपुंसकेनैकवचास्यान्यतरस्यां' (पा. सू., १. २. ६५.) इति सूत्रेण एकशेष एकवचनान्तता चेति ।

 १ विस्रब्ध इत्येव पाठस्साधीयान् , न तु विश्रब्ध इति । 'सम्भु विश्वासे' इति इति 'श्रम्भुप्रमादे' इति च धातुपाठात् । 'सम्भुविश्वासे' दन्त्यादिरयम् , तालव्यादिस्तु प्रमादे गतः' इति सिद्धान्तकौमुद्युक्तेश्च ।

 २. लक्षणनिष्टासंभवश्च लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम् ।