पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

 कस्याश्चित्सङ्केतस्थानं जीवितसर्वस्वायमानं धार्मिकसञ्चरणान्तरायदोषात्तदवलुप्य- मानपल्लवकुसुमादिविच्छायीकरणाच्च परित्रातुमियमुक्तिः। तत्र स्वतःसिद्धमपि भ्रमणं श्वभयेनापोदितमिति प्रतिप्रसवात्मको निषेधाभावरूपः, न तु नियोगः प्रैषादिरूपोऽत्र विधिः; अतिसर्गप्राप्तकालयोर्ह्ययं लोट् । तत्र भावतदभावयोर्विरोधाद्ववयोस्तावन्न युगप-

बालप्रिया

रणम् । वक्तृविशेषानुक्तौ व्यंग्यप्रतीत्यनुदयमाशंक्यावतारिकामाह-कस्याश्चिदि- त्यादि । परित्राणे हेतुः-जीवितसर्वस्वायमानमिति । अतिप्रियत्वादिति भावः । सञ्चरणेन योऽन्तरायः चौर्यसुरतस्य स्वल्पकालविच्छेदरूपो विघ्नः तद्रूपो दाप- स्तस्मात् । दोषान्तरमप्याह-तदवेति । तेन धार्मिकेण अवलुप्यमानमपह्रिय- माणं पल्लवकुसुमादि, तेन यद्विच्छायीकरणं निश्शोभतापादनं, तस्मात् । तत्रेति । तथा सतीत्यर्थः । स्वत इत्यादि । अत्र भ्रमणरूपे वाक्याथें 'विधिर्निषेधा. भावरूपः न तु प्रैषादिरूपो नियोग' इति सम्बन्धः । ननु किमिति मुख्य एव न स्यादित्यत्राह-प्रतिप्रसवात्मक इति । अत्र हेतुमाह-स्वत इत्यादि । श्वभयेन कर्त्रा । अपोदितं प्रतिषिद्धम् । इतीति हेतौ । यथोक्तं 'प्राप्ते तु प्रतिषेधे हि प्रतिप्रस- वयोगिता' इति । निषेधाभावरूपो विधिरित्यत्र हेतुत्वेन लोडर्थमाह-अतिसर्गेति ।

 अयमर्थः-स्वतस्सिद्धं भ्रमणं श्वभीतिर्निषेधति स्म । प्रतिषिद्धस्य भ्रमणस्य प्रतिषेधकाभावः सम्प्रति कथ्यते । अतोऽयं प्रतिप्रसवः । प्रतिषेधनिवर्तनं हि सः । अतो भ्रमणस्येदानीं न कश्चित् प्रतिबन्ध इति निषेधाभावोऽत्र विधिः, न तु नियोगः । न खल्वेषा स्वैरिणी राजेव भ्रमणविधिं करोति, श्वभयमिव भ्रमणनिषेधं वा। किं तर्हि ? भ्रमणप्रतिषेधकाभावं कथयति । ततो भ्रमणं विधीयमानताकोटिं निविशते । तस्मादयं लोट् कामचाराभ्यनुज्ञारूपातिसर्गे, प्राप्तकालार्थश्चायं लोडिति । अथ भ्रमणनिषेधस्य व्यंग्यत्वं व्यवस्थापयिष्यन् वाच्यत्वादिकं निराकरोति-तत्रेत्यादिना। तत्र तथा- विधवचने। द्वयोः भ्रम, मा भ्रमीरिति विधिनिषेधरूपयोरर्थयोः । युगपत् एकदा ।


 १. 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' (पा. सू., ३. ३. १३.) इति सूत्रेणेत्यर्थः । प्रामाणान्तरप्रमितेऽर्थ पुरुषनिष्ठा पुरुषप्रवर्त्तना प्रेषः । अतिसर्गः कामचारः ।

 २. धार्मिकघटितसामानाधिकरण्येनेत्यर्थः ।

 ३. व्यङ्गयप्रतीतौ वक्त्रादिवैशिष्ट्यज्ञानस्य सहकारिकारणत्वादिति भावः । अभिहित चात्र प्रकाशकृद्भि :-

वक्तृवोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ।
प्रस्तावदेशकालादेवैशिष्ट्यात्प्रतिभाजुषाम् ॥
योऽर्थस्थान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा। इति ।

काव्यप्र.,३.२१-२२. -