पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
प्रथमोद्योतः


लोचनम्

द्वाच्यता, न क्रमेण, विरम्य व्यापाराभावात् । 'विशेष्यं नाभिधा गच्छेत्' इत्यादि- नाभिधाव्यापारस्य विरम्य व्यापारासंभवाभिधानात् ।

 ननु तात्पर्यशक्तिरपर्यवसिता विवक्षया दृप्तधार्मिकतदादिपदार्थानन्वयरूपमुख्यार्थ- बाधवलेन विरोधेनिमितया विपरीतलक्षणया च वाक्यार्थीभूतनिषेधप्रतीतिमभिहिता- न्वयदृशा करोतीति शब्दशक्तिमूल एव सोऽर्थः । एवमनेनोक्तमिति हि व्यवहारः,

बालप्रिया

न वाच्यता न अभिधेयता । अत्र हेतुः-भावेति । घटतदभावयोरिव तयोर्विरोधा. दित्यर्थः । विरुद्धयोस्तयोर्युगपद्बुद्धिपथानारोहित्वादिति यावत् । न क्रमेणेति । वाच्यतेत्यनुषज्यते । अत्र हेतुमाह-विरम्य व्यापाराभावादिति । अभिधाया विरम्य पुनः सम्भवाभावादित्यर्थः । एकश्शब्द एकमर्थमभिधया बोधयित्वा पुनस्तया अर्थान्तरं न बोधयति यतः, तस्मादिति यावत् । अत्र प्रमाणमाह-विशेष्यमि- त्यादि । आदिपदेन 'क्षीणशक्तिविशेषण' इत्यस्य संग्रहः । अभिधा गवादिपदा- भिधा । विशेषणे गोत्वादावर्थे । क्षीणा विरता । शक्तिः बोधजननसामर्थ्यं यस्याः सा तथा सती । विशेष्यं गवादिव्यक्तिरूपम् । न गच्छेत् न बोधयेदिति तदर्थः । अतश्च विधिनिषेधयोरेक एवाभिधेय इति भावः ।

 यद्येवं तर्हि निषेधस्यैवात्र बोधो भवत्विति शङ्कते-नन्वित्यादि । यत्र तात्पर्यं तद्धि वाक्यार्थः । तात्पर्यविषयश्चात्र भ्रमणनिषेधः । अतः स एव वाक्यार्थः । तेन तस्य विवक्षया विवक्षितत्वाद्धेतोः । अपर्यवसिता भ्रमणविधौ पर्यवसानमनाप्नुवती। तात्पर्यशक्तिः पदनिष्टा विवक्षितार्थप्रतीतिजननसामर्थ्यरूपतात्पर्यात्मिका शक्तिः । वाक्यार्थीभूतस्य निषेधस्य प्रतीतिं करोति । केन व्यापारेणेत्यत्राह-लक्षणयेति । लक्षणानिमित्तमाह-विरोधेति । विरोधरूपसम्बन्धनिमित्तयेत्यर्थः । 'वाच्यार्थस्य च वाक्यार्थे सम्बन्धानुपपत्तितः' इत्युक्तं मुख्यार्थबाधं दर्शयति-दृप्तेत्यादि । भ्रमेत्यस्य मुख्यार्थकत्वे दृप्तत्वाद्यभिधानस्य वैयर्थ्यापत्या दृप्तादिपदार्थघटितवाक्यार्थे भ्रमणविधि. रूपमुख्यार्थस्य योऽनन्वयः अन्वयोपपत्त्यभावः, तद्रूपो यो मुख्यार्थबाधस्तस्य चलेन सहकारेणेत्यर्थः । अभिहितान्वयदशेति । अभिहितान्वयदर्शनेनेत्यर्थः । अभिहितान्वयवादिमतानुरोधेनेति यावत् । फलितमाह-इतीत्यादि । शब्दशक्तिर- भिधा तन्मूलः। तात्पर्यशक्तिलक्षणाशक्त्योरभिधाश्रयत्वेनावस्थानादिति भावः । वक्ष्यते च 'अभिधापुच्छभूता लक्षणेति । सोऽर्थ इति। भ्रमणनिषेध इत्यर्थः । अत्र प्रमाण


 १. अभिधा नित्येच्छेति नैयायिकाः, नित्यज्ञानं नित्ययत्नो वेति तदेकदेशिनः, बोधकतेति प्राचीनवैयाकरणाः, वाच्यवाचकभावापरपर्याया सेति मञ्जूषाकृत , पदा- र्थान्तरमिति मीमांसकाः।

 २. प्रतियोगित्वसम्बन्धप्रयोज्ययेत्यर्थः