पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

वाच्यातिरिक्तोऽन्योऽर्थ इति ।

 नैतत् ; त्रयो ह्यत्र व्यापाराः संवेद्यन्ते-पदार्थेषु सामान्यात्मस्वभिधाव्यापारः, समयापेक्षयार्थावगमनशक्तियभिधा । समयश्च तावत्येव, न विशेषांशे, आनन्त्या द्वयभिचाराच्चैकस्य । ततो विशेषरूपे वाक्यार्थे तात्पर्यशक्तिः परस्परान्विते, 'सामा-

बालप्रिया

माह-एवमित्यादि। उक्तमिति हि व्यवहार इति । न तु व्यञ्जितमिति व्यवहार इति भावः । उपसंहरति-तन्नेति । वाच्यातिरिक्तः अभिधेयातिरिक्तः ।

 विपरीत लक्षणयाऽत्र निषेधप्रतीतिर्न सम्भवति, तस्या अनवकाशादित्याशयेन मतमेतत्प्रत्याचष्टे-नैतदित्यादि । एतन्न एतन्मतं युक्तं नेत्यर्थः । कुत इत्यत्राह- त्रय इत्यादि । अत्र लोकव्यवहारे । यो व्यापाराः अभिधातात्पर्यलक्षणाः । शब्दस्येति शेषः । संवेद्यन्ते ज्ञायन्ते । आद्यस्य व्यापारस्य विषयमाह-पदार्थे- ष्विति । सामान्यात्मसु गोत्वादिसामान्यरूपेषु । अभिधाव्यापार इति । गवा- दिपदानामिति शेषः । स्वरूपमाह-समयेत्यादि । समयापेक्षया सङ्केतग्रहणसहका- रेण । 'समयापेक्षेति च पाठः । समयं सङ्केतग्रहणमपेक्षत इति तदर्थः । अर्थावगम- नशक्तिः अर्थबोधनसामर्थ्यम्। तावत्येव सामान्यात्मकपदार्थ एव। एवकारव्यवच्छे. द्यमाह-नेत्यादि । विशेषांशे व्यक्त्यात्मनि । कुत इत्यत्राह-आनन्त्यादिति । विशेषांशानामनन्तत्वादित्यर्थः । तथा च सर्वस्मिन् विशेषे समयः कर्तुं न शक्यः। अन- न्तश्च स्यादिति भावः । हेत्वन्तरमप्याह-व्यभिचाराच्चैकस्येति । एकैकस्य विशेषां- शस्य मिथो व्यभिचाराच्चेत्यर्थः । गोपदेन यस्य गोव्यक्तिविशेषस्य बोधो जायते, तस्मिन्नितरगोव्यक्तिगतसमयो नास्तीति रीत्या व्यभिचारो बोध्यः । यद्वा-समय- श्चेत्यत्र समयशब्दस्य सङ्केतग्रह इत्यर्थः । सर्वस्मिन् विशेषे सङ्केतग्रहस्य व्यवहारा. ङ्गत्वे दोषमाह-आनन्त्यादिति । विशेषाणामनन्तत्वात्सर्वस्मिन् विशेषे सङ्केतग्रहो न सम्भवतीत्यर्थः । तर्ह्येकस्मिन्नेव विशेषे तद्रहो व्यवहाराङ्गमस्त्वित्यत्राह-व्यभि- चाराच्चैकस्येति । अगृहोतसङ्केतकस्यापि गवादिव्यक्तिविशेषस्य गवादिपदेन बोधो- दयात्तत्र सङ्केतग्रहस्य व्यभिचाराच्चेत्यर्थः । अथ द्वितीयं व्यापार सविषयं दर्शयति- तत इत्यादि । ततः उक्ताद्धेतोः। परस्परान्विते आकाङ्क्षावशाद्गुणप्रधानभावेन मिथस्संबद्ध । विशेषरूपे सामान्यात्मकततत्पदार्थाक्षिप्ततद्व्यक्तिरूपविशेषघटिते । वाक्यार्थै विषये। तात्पर्यशक्तिः स वाक्यार्थः परः प्रधानतया प्रतिपाद्यः येषां तानि तत्पराणि तेषां भावस्तात्पर्यं तद्रूपा शक्तिः, पदानामिति शेषः । आक्षेपं बोध- यन्नाह–सामान्यानीत्यादि । सामान्यानि पदैरभिहिताः सामान्यरूपा अर्थाः अन्यथा विशेषाणामनवगमने । असिद्धेः क्रियाद्यन्वयासिद्धः। विशेष स्वाश्रय- व्यक्तिरूपं गमयन्ति। स्वाविनाभावाद्बोधयन्ति । 'सामान्यानन्यथेति पाठे तु