पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
प्रथमोद्योतः


लोचनम्

न्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि' इति न्यायात् । तत्र च द्वितीयकक्ष्यायां 'भ्रमे ति विध्यतिरिक्तं न किञ्चित्प्रतीयते, अन्वयमात्रस्यैव प्रतिपन्नत्वात् । न हि 'गङ्गायां घोषः' 'सिंहो बटुः' इत्यत्र यथान्वय एव बुभूषन् प्रतिहन्यते, योग्यताविरहात् ; तथा तव भ्रमणनिषेद्धा रा श्वा सिंहेन हतः । तदिदानीं भ्रमणनिषेधकारणवैकल्याद्भ्रमणं तवोचितमि- त्यन्वयस्य काचित्क्षतिः । अत एव मुख्यार्थबाधा नात्र शङ्कयेति न विपरीतलक्षणाया अवसरः ।

 भवतु वासौ । तथापि द्वितीयस्थानसंक्रान्ता तावदसौ न भवति । तथा हि-मुख्या- र्थबाधायां लक्षणायाः प्रक्लृप्तिः । बाधा च विरोधप्रतीतिरेव । न चात्र पदार्थानां स्वा- त्मनि विरोधः । परस्परं विरोध इति चेत्-सोऽयं तयन्वये विरोधः प्रत्येयः ।

बालप्रिया

पदानीति शेषः । सामान्यानां स्वाभिहितसामान्यरूपाणामर्थानामनन्यथासिद्धरवि- नाभावादित्यर्थः। एवमुपनिबद्धपीठिको लक्षणां निराकर्तुमारभते -तत्र चेत्यादि । तत्र तात्पर्यशक्तिविषयभूतायाम् । द्वितीयकक्ष्यायां अभिधाव्यापारविषयापेक्षया द्वितीयस्यां कक्ष्यायाम् । भ्रमेत्यादिवाच्यो भ्रमणविधिरेव प्रतीयते, नान्यनिषेधरूपं किञ्चिदित्यर्थः । अन्वयमात्रस्येति । वाक्यार्थमात्रस्येत्यर्थः । एवकारो मात्रशब्दार्थस्फु- टीकरणार्थः। एतद्यवच्छेद्यं विध्यतिरिक्तमित्यादि पूर्वोक्तं बोध्यम् । प्रतिपन्नत्वादि- ति । ज्ञातत्वादित्यर्थः । उक्तमुपपादयति -न हीत्यादि । 'इत्यन्वयस्य न हि काचित् क्षति'रिति सम्बन्धः । गङ्गायामित्यादि वैधर्म्येणोदाहरणम् । अन्वय इति वाच्यध- र्मिणोरन्वय इत्यर्थः । बुभूषन्नेव भवितुमारब्धवानेव । प्रतिहन्यते बाधितो भवति । योग्यताविरहादिति । गङ्गादिपदवाच्यधर्मिणः स्रोतोविशेषादेः घोषादिना सहाधारा- धेयभावसम्बन्धादेरभावादित्यर्थः । क्षतिः बाधा । फलितमाह-अत एवेत्यादि । अत- एव अन्वयक्षतेरभावादेव ।

 अथ लक्षणाप्रयोजनविषये ध्वनिव्यापारं प्रदर्शयिष्यन्नभ्युपगम्यापि लक्षणां तस्याः पूर्वपक्ष्यभिमततात्पर्यशक्तिविषयकक्ष्यानिवेशं निराकुर्वन्नाह-भवतु वेत्यादि । असौ लक्षणा । द्वितीयस्थानसङ्क्रान्तेति । तात्पर्यकक्ष्यानिविष्टेत्यर्थः । तावदि- ति सम्प्रतिपत्तौ, वाक्यालङ्कारे वा । एतदेवोपपादयति-तथाहीत्यादिना। लक्षणायाः प्रक्तृप्तिरिति । लक्ष्यार्थोपस्थितिकल्पनेत्यर्थः । बाधा चेति । बाधापदार्थश्चेत्यर्थः । 'सा चेति क्वचित् पाठः । विरोधप्रतीतिरेवेति । मुख्यार्थबाधा नाम मुख्यार्थस्य यो विरोधस्तत्प्रतीतिरेवेत्यर्थः । एवकारेण नात्र विवाद इति दर्शयति। उक्त्तो विरोधः पदार्था- नां स्वात्मन्युत परस्परमिति विकल्पं हृदि निधायाद्यं निराचष्टे-न चेत्यादि । चस्त्वर्थः । अत्र लक्षणस्थले । 'अत्र विरोधस्तु पदार्थानां स्वात्मनि नेति सम्बन्धः । स्वात्मनि स्वेन सह । द्वितीयमाशङ्कते-परस्परमिति । पदार्थानामित्यनुषङ्गः । समाधत्ते-सोऽ-