पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

न चाप्रतिपन्नेऽन्वये विरोधप्रतीतिः, प्रतिपत्तिश्चान्वयस्य नाभिधाशक्त्या, तस्याः पदार्थ- प्रतिपत्त्युपक्षीणाया विरम्याव्यापारात् इति तात्पर्यशक्त्यैवान्वयप्रतिपत्तिः ।

 नन्वेवं 'अङ्गुल्यग्रे करिवरशतम्' इत्यत्राप्यन्वयप्रतीतिः स्यात् । किं न भवत्यन्वय- प्रतीतिः देशदाडिमादिवाक्यवत् , किन्तु प्रमाणान्तरेण सोऽन्वयः प्रत्यक्षादिना बाधितः प्रतिपन्नोऽपि शुक्तिकायां रजतमिवेति तदवगमकारिणो वाक्यस्याप्रामाण्यम् । 'सिंहो माणवकः' इत्यत्र द्वितीयकक्ष्यानिविष्टतात्पर्यशक्तिसमर्पितान्वयबाधकोल्लासानन्तरमभि-

बालप्रिया

यमित्यादि । तहि सः लक्षणामूलत्वेन प्रसिद्धः । अयं भवद्भिरभ्युपगतो विरोधः। अन्वेये पदार्थानां परस्परान्वये प्रत्येयः ज्ञातव्यः । न चेत्यादि । अप्रतिपन्ने अ- ज्ञाते । “विरोधप्रतीतिर्न चेत्यन्वयः । धर्मिण्यप्रतीते धर्मरूपस्य विरोधस्य तत्र प्रती- त्ययोगादिति भावः । तर्हि प्रतिपन्नेऽस्त्वित्यत्राह-प्रतिपत्तिश्चेत्यादि । अव्या- पारादिति । व्यापारासम्भवादित्यर्थः । मुख्यार्थवाधा नाम लक्षणास्थले 'सिंहो माण- वक' इत्यादौ सिंहादिपदमुख्यार्थस्य माणवकपदार्थेन सहाकाङ्क्षातात्पर्यवशाद्भासमान- स्तादात्म्यादिसंसर्गरूपो योऽन्वयस्तस्मिन् विरुद्धत्वस्य प्रतीतिः । विरुद्धत्वं च तस्मि- न्नन्वये सिंहादिप्रतियोगिकत्वस्य माणवकाद्यनुयोगिकत्वस्य च द्वयोरभावेन तद्रूपं बा. धितत्वम् । अतएव वक्तृविवक्षितत्वाभावस्तदित्यपि केचित् । भवति च सत्यपि बा. धनिश्चये वाक्यजन्यो बोध इति भावः ।

 प्रसङ्गादाशङ्कते-नन्वेवमित्यादि । एवं बाधितस्याप्यन्वयस्य वाक्यात्प्रतीत्यङ्गी- कारे । इष्टापत्या समाधत्ते-किन्नेत्यादि। किं न भवति भवत्येव । वैधर्म्येण दृष्टान्त- माह-दशेत्यादि । “दशदाडिमानि षडपूपा” इत्यादि महाभाष्योदाहृतवाक्यसमुदाय- स्थल इवेत्यर्थः । तत्र भवतिक्रियाध्याहारेण प्रत्येकं दशदाडिमानीत्यादि तत्तद्वाक्याद- न्वयवोधे सत्यपि सर्ववाक्यार्थानां मिथः संसर्गावगाह्येकविशिष्टार्थबोधात्मकान्वयप्रतीति- राकाङ्क्षादिकारणाभावान्न भवति, प्रकृते च तत्सत्वादन्वयप्रतीतिर्भवत्येवेत्यर्थः। विशेष- माह-किन्त्विति । 'प्रतिपन्नोऽपि सोऽन्वयः शुक्तिकायां रजतमिव प्रत्यक्षादिना प्रमा- णान्तरेण बाधित' इति सम्बन्धः। इतीति हेतौ। अन्वयस्य बाधितत्वादित्यर्थः । तस्य ज्ञानस्य स्वोत्तरजातबाधज्ञानविशिष्टत्वादिति यावत् । वाक्यस्य 'अङ्गुल्या' इत्यादि- वाक्यस्य । ननु तर्हि 'सिंहो माणवक' इत्यादेरप्यप्रामाण्यं स्यादित्यत्राह-सह इत्यादि । शक्त्या समर्पिते बोधिते अन्वये, वाधकस्य विरोधस्य उल्लासः प्रती- तिः तदनन्तरम् । तद्वाधकविधुरीति । तद्वाधकस्य अन्वयबाधकस्य विधुरीक-


 १. 'दश दाडिमानि, षडपूपाः, कुण्डम् , अजाजिनम् , पललपिण्डः, अधरोरुक- मेतत्कुमार्याः, स्फैयकृतस्य पिता प्रतिशीनः' इति ( महाभा., १. २. ४५) महा- भाष्यं द्रष्टव्यम्।