पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
प्रथमोद्योतः


तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः ।
बहुधा व्याकृतः सोऽन्यैः
काव्यलक्ष्मविधायिभिः ।

                          ततो नेह प्रतन्यते ॥ ३ ॥

केवलमनूयते पुनर्यथोपयोगमिति ॥ ३ ॥


लोचनम्

हेतुः । न ह्यलङ्कार्य एवालङ्कारः , गुणी एव गुणः । एतदर्थमपि वाच्यांशोपक्षेपः । अत एव वक्ष्यति-'वाच्यः प्रसिद्धः' इति ॥ २ ॥

 तत्रेति । व्द्यंशत्वे सत्यपीत्यर्थः । प्रसिद्ध इति । वनितावदनोद्यानेन्दूदया- दिलौकिक एवेत्यर्थः । 'उपमादिभिः प्रकारैः स व्याकृतो बहुधेति सङ्गतिः । अन्यै- रिति कारिकाभागं काव्येत्यादिना व्याचष्टे । 'ततो नेह प्रतन्यत' इति विशेषप्र- तिषेधेन शेषाभ्यनुज्ञेति दर्शयति-केवलमित्यादिना ॥ ३ ॥

बालप्रिया

तद्व्यतिरिक्तत्वं दर्शयति-न हीत्यादिना। एतदर्थमपीति। न केवलं भूमिकार्थम् , अनैकान्तिकत्वप्रदर्शनार्थमपीत्यर्थः । उत्तरकारिकायां वाच्यस्य प्रसिद्धत्वकथनमप्येतद- भिप्रायकमित्याह-अत एवेति । प्रसिद्ध हि वस्तुनि व्यभिचारोद्भावनम् ॥ २ ॥

 कारिकायां तत्रेति भावलक्षणसप्तमी । तत्पदेन वाच्यप्रतीयमानयोः परामर्शः । द्वि- वचनान्तात्त्रल् । अपिशब्दश्चाध्याहार्य इत्याशयेन व्याचष्टे--द्वयंशत्वे सत्यपीति । अर्थस्येति शेषः । द्वयोर्भेदयोः सतोरपीत्यर्थः । अपिशब्देनैकस्यैव बहुधा व्याकरणे वि- रोधं दर्शयताऽन्येषामपारं मौर्ख्यं द्योत्यते। प्रसिद्धपदं व्याचष्टे-वनितेत्यादि । आलम्बनादिरूप इत्यर्थः । एतत्प्रदर्शनेन रसध्वनेः प्राधान्यं द्योत्यते लौकिकः लोक- विदितः । 'काव्यलक्ष्मविधायिभिरित्यस्य कारिकाचतुर्थपादत्वशङ्कां परिहर्तुमाह- अन्यैरित्यादि। इति विशेषप्रतिषेधेनेत्यादि । अज्ञातज्ञापनलक्षणं प्रतिपादन हि प्रतननं, तस्य विशेषरूपस्य प्रतिषेधेन तत्प्रतिद्वन्द्वितया परिशिष्टमनुवदनं गम्यत इति भावः ॥ ३ ॥


 १. ध्वन्या., १.३.

 २'अन्यैरिति कारिकाभागं व्याचष्ट' इति लोचनेन 'काव्यलक्ष्मविधायिभिरि- त्यस्य व्याख्यानभूतत्वोक्त्या 'काव्यलक्ष्मविधायिभिरिति वृत्तिग्रन्थः प्रतीयते । 'ततो नेह प्रतन्यत' इति तु कारिकाचतुर्थपादः । तथाच 'काव्यलक्ष्मविधायिभिरित्यस्य चतुर्थपादत्वेन मुद्रणं N. S. संस्करणे भ्रमविलसितमेवेति बोध्यम् ।

 ३. आदिपदेनोद्दीपनानुभावौ ग्रहीतव्यौ।