पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
सटीकलोचनोपेतध्वन्यालोके


स्थितः सहृदयश्लाघ्यो योऽर्थस्तस्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ ।


लोचनम्

योऽर्थ इति यदानुवदन् परेणाप्येतत्तावदभ्युपगतमिति दर्शयति । तस्येत्यादिना तद. भ्युपगम एव द्वयंशत्वे सत्युपपद्यत इति दर्शयति । तेन यदुक्तम्-'चारुत्वहेतुत्वाद्गुणा- लङ्कारव्यतिरिक्तो न ध्वनिः' इति, तत्र ध्वनेरात्मस्वरूपत्वाद्धेतुरसिद्ध इति दर्शितम् । न ह्यात्मा चारुत्वहेतुर्देहस्येति भवति । अथाप्येवं स्यात्तथापि वाच्येऽनैकोन्तिको

बालप्रिया

रसविषयमौचित्यं रसस्य प्राधान्यं विना न घटते, तस्मिश्च सति तस्यात्मत्वं सिद्धमिति भावः । एतदेव विपक्षे वाधकमुखेन साधयति-तदभाव इत्यादि । तस्य जीवितभूतस्य रसस्याभावे । उद्धाप्यत इति । अभाववादिभिरपीति शेषः । वृत्तौ ‘सन्निवेशे। त्यस्य शब्दार्थयोः संस्थानेत्यर्थः । 'य' इत्यादिनिर्देशस्य फलमाह-योऽर्थ इत्यादि । यदा यच्छब्देन । यच्छन्दवटितवाक्येनेति यावत् । परेणापि पूर्वपक्षिणापि । एतत् प्रती. यमानं वस्तु । तावत् आदौ संप्रतिपत्तौ वा। अभ्युपगतमिति । प्रतीयमानस्य का. व्यार्थान्तर्भावादिति भावः । तदित्यादि । तदम्युपगमः प्रतीयमानाभ्युपगमः। व्द्यं- शत्वे सति उपपद्यत एवेति सम्बन्धः । एकांशाङ्गीकारे अंशान्तरस्यावारणीयत्वादिति भावः । तदभ्युपगम एवोपपद्यते, नानभ्युपगम इति वा । यद्वा एतत् काव्यार्थस्य सहृदयश्लाघ्यत्वम् । तदभ्युपगमः सहृदयश्लाध्यत्वाभ्युपगम इति । एवञ्च पूर्वपक्षो. क्तानुमानमपि परास्तमित्याह-तेनेत्यादि । तेन उक्तभङ्गया ध्वनेरात्मत्वप्रतिपादनेन । इति दर्शितमित्यनेनान्वयः । तत्रेति । तदनुमान इत्यर्थः । असिद्ध इति । स्व- रूपासिद्ध इत्यर्थः । ननु ध्वनेरात्मत्वेऽपि चारुत्वहेतुत्वं किं न स्यादित्यतो दृष्टान्तग- र्भमाह-न हीति । 'इति न भवति ही ति सम्बन्धः । लोक इति शेषः ।

 ननु प्रतीयमानस्य वाच्यार्थश्लाघालक्षणातिशयहेतुत्वेन चारुत्वहेतुत्वमस्त्येवेति क- थमसिद्धिः । लोकेऽप्यात्मा चारुत्वहेतुः, शवशरीरे सर्वाभरणभूषितेऽपि चारुत्वादर्शना- दित्यत्राह-अथाप्येवमिति । अथापि यद्यपि । एवमिति । आत्मनश्चारुत्वहेतु- त्वमित्यर्थः । स्यादित्यभ्युपगमे । तथापीति । तथापीह दोषोऽस्तीत्यर्थः। तमाह- वाच्य इति । अनैकान्तिकः व्यभिचारी । प्रतीयमानसंवलनोपाधिकस्य चारुत्वहेतु- त्वस्य वाच्यार्थेऽपि सत्त्वात्तस्य गुणालङ्कारव्यतिरिक्तत्वाच्च तत्र व्यभिचार इत्यर्थः ।


 १.यच्छब्दयोगः प्राथम्यं सिद्धत्वं चाप्यनूद्यता

 तच्छब्दयोग औत्तय साध्यत्वञ्च विधेयता ॥

 इति भट्टवार्तिकोक्तानुवादलक्षणं बोध्यम् ।

 २. अनैकान्तिको व्यभिचारी । तत्त्वञ्च साध्याभावववृत्तित्वम् ।