सामग्री पर जाएँ

पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
प्रथमोद्योतः


 काव्यस्य हि ललितोचितसन्निवेशचारुणः शरीरस्येवात्मा साररूपतया


लोचनम्

स्थाप्यते। वाच्यसंवलनाविमोहितहृदयैस्तु तत्पृथग्भावे विप्रतिपद्यते, चार्वाकरिवात्म- पृथग्भावे । अत एव अर्थ इत्येकतयोपक्रम्य सहृदयश्लाघ्य इति विशेषणद्वारा हेतु- मभिधायापोद्धारदृशा तस्य द्वौ भेदावंशावित्युक्तम् , न तु द्वावप्यात्मानौ काव्यस्येति ।

 कारिकाभागगतं काव्यशब्दं व्याकर्तुमाह-काव्यस्य हीति । ललितशब्देन गुणालङ्कारानुग्रहमाह । उचितशब्देन रसविषयमेवौचित्यं भवतीति दर्शयन् रसध्वेर्जी. वितत्वं सूचयति । तदभावे हि किमपेक्षयेदमौचित्यं नाम सर्वत्रोद्धोष्यत इति भावः ।

बालप्रिया

रूपात्मगुणयोगादात्मत्वं विवेकिभिरुपपत्त्या निर्धार्यत इत्यर्थः । कुतस्तर्हि सर्वेषां तथा न प्रतीतिः, प्रत्युत विमतिश्चेत्यत आह-वाच्येत्यादि । प्रतीयमानस्य या वाच्य- संवलना वाच्यार्थमिश्रणा, तया निरूढनिबिडतरताद्रूप्यभावनावासनाधिरूढया वि- मोहितं विवेकसामर्थ्यरहितं कृतं हृदयं येषां तैः । तत्पृथग्भावे तस्य प्रतीयमानस्य वाच्याच्छरीरभूतात्पृथग्भावे । दृष्टान्तमाह-चार्वाकैरिति । शरीरादिति शेषः । व्याख्यातमर्थं कारिकारूढं करोति-अत एवेत्यादि काव्यस्येत्यन्तेन । अत एव यतो देहात्मन्यायेन वाच्यव्यंग्ययोरवस्थानं विवेच काविवेचकदृष्टिद्वयानुरोधिनी च तत्पृ. थग्भावापृथग्भावपरिच्छित्तिस्तत एव । एकतयेति । एकवचनान्ततयेत्यर्थः । उप. क्रम्य वचनोपक्रमं कृत्वा । अविवेचकदृष्टयनुरोध्यविभागबुद्धयोपस्थापितं यद्वाच्यव्यं- ग्ययोरर्थयोरेकत्वं, तद्बोधकैकवचनान्तत्वेनार्थ इत्यनुवादभागे निर्दिश्येत्यर्थः । विशे- षणद्वारा विशेषणमुखेन । हेतुमिति । सहृदयश्लाघाहेतुभूतो द्वयंशत्वसाधकश्च योऽ- र्थविशेषस्तमित्यर्थः । तद्भवितव्यं तत्र केनचिद्विशेषेणेत्युक्तं प्राक् । अभिधा- येति । प्रदर्येत्यर्थः । अपोद्धारदृशा विभागबुद्धया । भेदावित्यस्य व्याख्यानं- अंशाविति । इलाघनक्रियायाः कर्मभूत एकोंऽशो वाच्यो यस्तस्था हेतुभूतः, स प्रती- यमानांश इत्यर्थः । न त्वित्यादि । किन्तु प्रतीयमान एवात्मा, वाच्यस्त्वंशः शरीर- भूत इति भावः । अत्राविभागबुद्धिगम्याकारणार्थस्य पूर्वार्धे काव्यात्मत्वनिर्देशः, उत्त- रार्धे तु विभागबुद्धिगम्याकारेण द्वयंशत्वविधानमिति सारार्थः । 'अर्थस्सहृदयश्लाध्यः काव्यात्मा यो व्यवस्थित' इति च कारिकापाठः ।

 काव्यशब्द मिति। 'काव्यात्मेत्यत्र काव्यशब्दमित्यर्थः । ललितोचित' शब्दाभ्यां काव्यसम्बन्धिनस्सर्वे सङ्गृहीता इत्याह-ललितेत्यादि । गुणालङ्कारानुग्रहमाहेति । गुणालङ्कारकर्तृकमनुग्रहं साहायकं चारुत्वकरणमिति यावत् । रसविषयमेवेति । इति- वृत्तादीनामुपादेयानां रसशेषत्वात्तद्विषयमपि रसविषयमेवेति भावः । सूचयतीति ।


 १. अङ्गत्वादित्यर्थः ।