पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

ह्यर्थमात्रेण काव्यव्यपदेशः , लौकिकवैदिकवाक्येषु तदभावात् । तदाह-सहृदय- श्लाघ्य इति । स एक एवार्थो द्विशाखतया विवेकिभिर्विभागबुद्धया विभज्यते ।

 तथाहि-तुल्येऽर्थरूपत्वे किमिति कस्मैचिदेव सहृदयाः श्लाघन्ते। तद्भवितव्यं तत्र केनचिद्विशेषेण । यो विशेषः, स प्रतीयमानभागो विवेकिभिर्विशेषहेतुत्वादात्मेति व्यव-

बालप्रिया

र्थत्वावच्छिन्नस्सर्वजनवेद्यो न भवतीत्यर्थः । अनेन शब्दस्यानात्मत्वसाधकं यदुक्तं, तदत्र नास्तीति दर्शितम् । तर्हि किमर्थसामान्यस्य काव्यात्मत्वम् ? नेत्याह-न हीत्यादि । अर्थमात्रेण व्युत्पन्नजनवेद्येन कृत्स्नेनार्थेन व्यवहारं प्रति व्यवहर्तव्यस्य हेतुत्वा- भिप्रायेण, हेतौ तृतीया । काव्यव्यपदेशः काव्यव्यवहारः । वाक्येष्विति । वाक्य- विषयक इत्यर्थः । तदभावात् काव्यव्यपदेशाभावात् । अन्यथा तद्वाक्येष्वपि काव्या- व्यपदेशः स्यादिति भावः । तदाहेत्यादि । शब्दस्य काव्येतरवाक्यार्थस्य च काव्या- त्मत्वाभावात्तव्द्यावृत्यर्थं 'अर्थस्सहृदयश्लाघ्य' इत्याहेत्यर्थः । अथ सहृदयश्लाध्यत्वरूप. विशेषणगम्यार्थप्रदर्शनेन काव्यार्थस्यात्मत्वमुपपादयन्नुत्तरार्धस्य भावं विवृणोति- एक इत्यादि । एक एव एकत्वेनैव भासमानः । सः अर्थः सहृदयश्लाध्योऽर्थः । द्विशाखतया द्वयंशत्वेन। विवेकिभिः विवेचनशीलैः । विभागबुद्ध्या विरुद्धा- वन्योन्यव्यावृत्तधर्माणौ भागावंशावस्येति विभागः, तद्बुद्ध्या हेतुना ।

 उक्तमुपपादयति-तथाहीत्यादि । तुल्येऽर्थरूपत्व इति । काव्यार्थस्य लौकि- काद्यर्थस्य चार्थरूपत्वे तुल्ये सतीत्यर्थः । द्वयोरर्थयोरर्थत्वेन साम्येऽपीति यावत् । कि- मिति । कस्मात् कारणात् । अस्मद्विवक्षितान्नान्यस्मादिति भावः । कस्मैचिदेव का- व्यार्थायैव । तत् तस्मात् । तत्र काव्यार्थें । विशेषेण श्लाघाहेतुभूतेन विशेषेण । अ- तिशयाधायको धर्मो विशेषः । काव्यार्थो विशेषवान् , सहृदयश्लाध्यत्वात् , यन्नैवं तन्ने- वम् , यथा लौकिकादिवाक्यार्थ इति प्रयोगः । य इत्यादि । विशेषः विशेषाधायकः । स प्रतीयमानभाग इति । इत्युच्यत इति. शेषः । अनेनान्यो भागो वाच्य इति दर्शितम् । विवेकिभिरित्यादि । स इत्यनुषज्यते । यथा ह्यात्मा स्वसान्निध्यविशेषमा- त्रेण जडात्मकघटादिविलक्षणतया सशिरस्कदेहपिण्डे स्वचैतन्यारोपणमुखेनात्मभावप्रती- तिहेतुः, अत एव तच्छ्लाध्यतासम्पादकश्च, तथा प्रतीयमानभागोऽपि इतरवाक्यार्था- पेक्षया सहृदयश्लाघालक्षणं कमप्यतिशयं काव्यार्थे सम्पादयतीति तस्य विशेष हेतुत्व -


 १. अर्थत्वव्यापिका सर्वजनसंवेद्यता न भवतीति यावत् ।

 २. विषयक इति । यद्यपि व्यवहारस्य शब्दरूपतया शब्दस्य च निर्विषयकत्वेन नेदं समीचीनम् , तथापि शब्दजन्यज्ञानस्य सविषयकत्वेन तजनकेऽपि याचितम- णिन्यायेन तत्त्वव्यपदेशस्साधीयान् । व्यवहारस्य ज्ञानरूपत्वे तु न शङ्काकलङ्कावस- रोऽपीति ध्येयम् ।