पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
प्रथमोद्योतः


 वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥२॥


लोचनम्

च्येन समशीर्षिकया गणनं तस्याप्यनपह्रवनीयत्वं प्रतिपादयितुम् । स्मृतावित्यनेन 'यः समाम्नातपूर्व' इति द्रढयति । 'शब्दार्थशरीरं काव्यमिति यदुक्तं, तत्र शरीरग्रहणादेव केनचिदात्मना तदनुप्राणकेन भाव्यमेव । तत्र शब्दस्तावच्छरीरभाग एव सन्निविशते सर्वजनसंवेद्यधर्मत्वात्स्थूलकृशादिवत् । अर्थः पुनः सकलजनसंवेद्यो न भवति । न

बालप्रिया

वाच्यव्यतिरिक्तस्य । प्रतीयमानस्य व्यङ्गयस्य । उल्लिङ्गनादुल्लेखनात् । 'तत्पृष्टोत्थि- तेति पठित्वा, तत्पृष्ठे पक्षभूते तस्मिन्नुस्थिततया व्यतिरिक्ततया प्रतीयमानांशस्य उल्लि- ङ्गनादनुमानादिति केचित् । समशीर्षिकया समप्रधानतया। गणनं 'वाच्यप्रतीयमा- नाख्यावि'ति निर्देशः । तस्यापि प्रतीयमानस्यापि । अपिर्दृष्टान्तार्थः । अनेन प्रती- यमानमस्ति अर्थांशत्वात् , वाच्यवदिति प्रमाणमपि सूचितमित्युक्तम् , प्रमाणोक्त्यैवान- पह्ववनीयत्वसिद्धेः। स्थिताविति वक्तव्ये 'स्मृता वित्युक्तेः फलं व्याचष्टे-स्मृतावितीत्या- दि। यदुधैः समाम्नातं तत् स्मृतिरूपं च, यथा मन्वादिभिर्धर्मादिसमाम्नानं तश्च प्रमा- णान्तरमूलं, तद्वदिदमपीति द्रढयितुं स्मृतावित्युक्तमिति भावः। 'योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थित' इत्यनेन कारिकापूर्वार्धेनोक्तं सहृदयश्लाध्यत्वविशिष्टार्थस्य का- व्यात्मत्वं सोपपत्तिकं दर्शयन् वृत्त्यनुसारेण तदर्धं विवृणोति-शब्देत्यादिना। शब्दा- र्थावेव शरीरं यस्य तत् । उक्तमिति । पूर्वपक्षवादिभिरुक्तमित्यर्थः । तत्र शरीरग्र- हणादेव शब्दार्थयोः काव्यशरीरत्वस्वीकारादेव । यद्वा-तत्र तस्मिन्नुक्ते सति । शरीरेति । काव्यस्य शरीरस्वीकारादेवेत्यर्थः । एवकारेण प्रमाणान्तरानपेक्षत्वं सूचि- तम् । केनचित् शब्दार्थयोरन्यतरेण । किमर्थमिति चेदाह-तदिति । तत् काव्य- मनुप्राणयति जीवयति सहृदयाह्लादकं करोतीति तदनुप्राणवं, तेन । भाव्यमेवेत्येव- कारेणान्यथाशरीराभासत्वग्नसक्तिं दर्शयति । विमतं शरीरमात्मवत् , शरीरत्वादस्म- दादिशरीरवदिति प्रयोगः । तत्रेत्यादि । तत्र आत्मावश्यंभावित्वे सति । यद्वा-शब्दा- र्थयोर्मध्ये शरीरभाग एवेत्येवकारेण आत्मकोटिनिवेशे योग्यता निरस्यते। सर्वेति । सर्वजनसंवेद्या धर्माः तीव्रत्वमन्दत्वादयो मधुरत्वपरुषत्वादयो वा यस्य तत्त्वात् । दृष्टान्ते तु स्थूलत्वादयो धर्माः। यदा-संवेद्यशब्दो भाववचनः सर्वजनसंवेद्यत्वरूप- धर्मकत्वादित्यर्थः । विमतशब्दो नात्मा, सर्बजनसंवेद्यधर्मत्वात् , स्थूलादिशरीरवदिति प्रयोगः । सर्वेत्यादिना बाह्येन्द्रियग्राह्यत्वरूपो हेतुर्दर्शित इति केचित् । तर्ह्यर्थस्यात्मत्व- मस्त्वत आह-अर्थः पुनरित्यादि । पुनश्शब्दोऽर्थस्यात्मत्वयोग्यतारूपविशेषद्योतकः । सकलेति । काव्यार्थस्य सहृदयैकवेद्यत्वात्तदितरवाक्यार्थस्य व्युत्पन्नजनमात्रवेद्यत्वाचा-


 १. द्वन्द्वपटकसर्वपदार्थानां समप्राधान्यादिति भावः ।