पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
सटीकलोचनोपेतध्वन्यालोके


तत्र ध्वनेरेव लक्षयितुमारब्धस्य भूमिका रचयितुमिदमुच्यते-

 योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः ।


लोचनम्

त्यङ्गमेव सम्भावनाप्रत्ययोत्पादनमुखेनेति ग्रन्थान्ते वक्ष्यामः। एवं ग्रन्थकृतः कवेः श्रोतुश्च मुख्यं प्रयोजनमुक्तम् ॥ १॥

 ननु 'ध्वनिस्वरूपं ब्रूम' इति प्रतिज्ञाय वाच्यप्रतीयमानाख्यो द्वौ भेदावर्थस्येति वाच्याभिधाने का सङ्गतिः कारिकाया इत्याशङ्क्य सङ्गतिं कर्तुमवतरणिकां करोति- तत्रेति । एवं विधेऽभिधेये प्रयोजने च स्थित इत्यर्थः । भूमिरिव भूमिका । यथा अपूर्वनिर्माणे चिकीर्षिते पूर्व भूमिर्विरच्यते, तथा ध्वनिस्वरूपे प्रतीयमानाख्ये निरूपयि- तव्ये निर्विवादसिद्धवाच्याभिधानं भूमिः । तत्पृष्टेऽधिकप्रतीयमानांशोल्लिङ्गनात् । वा.

बालप्रिया

नात्मिका स्थितिः। किमर्थमेवं स्वनामप्रकटीकरणत्वेन व्याख्यानमित्यत आह- स्वेति । प्रवृत्त्यङ्गमेवेति । न ख्यात्यादिलाभायेत्येवकारार्थः । सम्भावनाप्रत्ययो- त्पादनमुखेनेति । सम्भावना बहुमानः, प्रत्ययः तद्धे तुराप्तत्वबुद्धिः, तदुभयो- त्पादनद्वारेणेत्यर्थः । किमेतत् ग्रन्थकाराभिप्रेतमित्यत्राह-इतीति । ग्रन्थान्ते वक्ष्या- मः “आनन्दवर्धन इति प्रथिताभिधान" इत्यस्य व्याख्यावसरे प्रकाशयिष्यामः । उपसंहरति-एवमिति । ग्रन्थकृतः ध्वनिग्रन्थकृतः। मुख्य प्रयोजनं प्रीतिरूपम् । मुख्यमित्यनेन धनादीन्यवान्तरप्रयोजनानि दर्शितानीत्यलम् ॥ १॥

 'तत्र ध्वनेरेव लक्षयितुमित्यादिग्रन्थमवतारयति-नन्दित्यादि । वाच्याभिधाने का सङ्गतिरिति । अप्रकृतत्वात्तदभिधानमसङ्गतमित्यर्थः । तत्रेति भावलक्षणसप्तमी द्विवचनान्तात्तल् । तत्पदेनाभिधेयप्रयोजनयोः पूर्वोक्तयोः परामर्शः। स्थितयोरिति शेष- श्वेत्याशयेन व्याचष्टे-एवंभूत इत्यादि। ‘एवंविधः इति च पाठः । ध्वनिस्वरूपे प्रीतिरूपे चेति तदर्थः । यद्वा-अभिधेयमात्र विशेषणमिदम् । विमतिपदपतित इति तदर्थः । भूमि- रिव भूमिकेति । अवतरणमिवावतरणिका, पीठमिव पीठिका। इमानि पदानि “इवेप्र- तिकृताविति कन्प्रत्ययान्तानि । यथाऽपूर्वेति । अपूर्वं यन्निमीयत इति अपूर्वनिर्माणं प्रासादादि तस्मिन् । निर्विवाद सिद्धेति। ध्वनिवादिनां तत्प्रतिक्षेपकाणां च सम्प्रति- पन्नेत्यर्थः । भूमिः अधिष्ठानं उपाय इति यावत् । वाच्यस्य भूमित्वे तदभिधानस्यापि भूमित्वम् , वाच्यप्रतीयमानार्थयोरधिष्टानाधिष्ठेयभावेन प्रतीतेः । प्रतीयमानार्थोपयोगित- था इह वाच्यार्थाभिधानं सङ्गतमेवेति भावः । कथं तस्य भूमिसादृश्यमित्यत आह- तदिति । तस्य वाच्यस्य पृष्टे पश्चात् । वाच्यप्रतीत्युत्तरकाल इति यावत् । अधिकस्य


 १.पा.सू., ५.३. ९६.