पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
प्रथमोद्योतः


लोचनम्

त्वलक्षणो विशेष इति प्राधान्येनानन्द एवोक्तः । चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पा- र्यन्तिकं मुख्यं फलम् ।

 आनन्द इति च ग्रन्थकृतो नाम । तेन स आनन्दवर्धनाचार्य एतच्छास्त्रद्वारेण सहृदयहृदयेषु प्रतिष्टां देवतायतनादिवदनश्वरीं स्थितिं गच्छत्विति भावः । यथोक्तम्-

उपयुषामपि दिवं सन्निबन्धविधायिनाम् ।
आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ॥ इति ॥

 यथा मनसि प्रतिष्टा एवंविधमस्य मनः, सहृदयचक्रवती खल्वयं ग्रन्थकृदिति यावत् । यथा-'युद्धे प्रतिष्ठा परमार्जुनस्य' इति । स्वनामप्रकटीकरणं श्रोतॄणां प्रवृ-

बालप्रिया

मुभयत्रोक्तिः। वेदादिप्रभृतीनां प्रभ्वादिसम्मितत्वं काव्यप्रदीपादौ विवृतम् । उक्त इति । कारिकायां फलत्वेनोक्त इत्यर्थः । भामहवनचनं तु धर्मादिव्युत्पत्तेः कीर्तेश्चाङ्गतया फल- त्वाभिप्रायकं, न तु मुख्यतयेत्याह-चतुर्वर्गेति । चतुर्वर्गव्युत्पत्तेरपि च पार्यन्तिकं फलमानन्द एवेति सम्बन्धः । अपि चेत्यनेन कीर्तेः समुच्चयः ।

 'सहृदयानामानन्द' इत्यादिग्रन्थमन्यथाऽपि व्याचष्टे-आनन्द इति । 'नाम चेति सम्बन्धः । यथा भीमसेनादेः भीमादिनाम, तथेति भावः । तेनेति । नामत्वेन हेतुने- त्यर्थः । इति भाव इत्यनेनास्य सम्बन्धः। सः मूलग्रन्थकारः । एतच्छास्त्रं ध्व. निग्रन्थः । हितशासनरूपत्वादेतस्य शास्त्रत्वम् । प्रतिष्ठाशब्दो हि देवतानां तत्समुचि- तायतने स्थितौ प्रसिद्ध इत्यतो देवतेत्यादिदृष्टान्तकथनम् । देवतायतनादिवत् देवः देवतायतनादिष्विव । आदिपदेन भक्तजनहृदयपरिग्रहः । प्रतिष्टां लभतामित्यस्य विवरणप्-अनश्वरीं स्थितिं गच्छत्विति । शास्त्रद्वारेण वर्तनं नाम शास्त्रस्यैव वर्त- नमित्यभिप्रायेण भामहवचनं संवादयति-यथोक्त मिति । अनश्वरीं स्थितिं गच्छ- त्विति प्रार्थिता स्थितिरवश्यंभाविनीत्यभिप्रायेणाह-यथेति । यथा मनसि सहृदयम- नसि प्रतिष्ठाभवति, एवं विधं तथाविधम् । अस्य आचार्यस्य मनः वैदुष्यमेतच्छास्त्रं च। उक्तमुपपादयति-सहृदयेति । खल्विति प्रसिद्धौ । यावदित्यवधारणे । प्रार्थि- तेऽस्मिन्नर्थे न संशय इत्यर्थः । अनेन ग्रन्थकृतोऽपि कीर्तिद्वारा प्रीतिरूपं फलं भवतीति दर्शितम् । प्रतिष्टाशब्दस्योक्तार्थकत्वे प्रयोगं संवादयति-यथेति । प्रतिष्ठा बहुमा-


 १. कारिकायां प्रीतिशब्देन, वृत्तावानन्दशब्देनेति भावः ।

 २. शास्त्रं शासनकरणम् । अज्ञातज्ञापकमिति यावत् । तथा च प्रमाणान्तरेणा- ज्ञातस्य ध्वनिस्वरूपस्यानेन ज्ञापनादेतस्य शास्त्रत्वं सुप्रतिष्ठितमेवेति भावः ।

 ३. भामहका, १.६.

 ४. 'शब्दस्तावत्रिधा-प्रभुसंमितः, सुहृत्संमितः, कान्तासंमितश्चेत्यादिकाव्यप्र. दीपग्रन्थो द्रष्टव्यः । ( काव्यप्र., पृ. ६. पूना. सं.)

 ६ ---