पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

 तद्वस्त्वलकार ध्वन्यभिप्रायेणांशमात्रत्वमिति सिद्धसाधनम् । रसध्वन्यभिप्रायेण तु स्वाभ्युपगमप्रसिद्धिसंवेदनविरुद्धमिति । तत्र कवेस्तावत्कीर्त्यापि प्रीतिरेव सम्पाद्या । यदाह-'कीर्ति स्वर्गफलामाहुः' इत्यादि । श्रोतॄणां च व्युत्पत्तिप्रीती यद्यपि स्तः, यथोक्तम्-

धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ॥ इति ।।

 तथापि तत्र प्रीतिरेव प्रधानम् । अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो भित्त्रसमिते भ्यश्चेतिहासादिभ्यो व्युत्पत्तिहेतुभ्यः कोऽस्य काव्यरूपस्य व्युत्पत्तिहेतोर्जायासंमित-

बालप्रिया

ज्यः सर्वः न अधिकारीति शेषः । किन्तु रसयितैवेत्यर्थः । अनेन रस चर्वणाया अधि- कारसम्पादकत्ववचनेन तस्याः प्राधान्येन जीवितत्वमुक्तमेवेति भावः । केचित्तु काव्ये सर्वः सर्वो व्यापारः । रसयिता कान्तेव रसचर्वणाहृत् । न बोद्धा बन्धुरिव न बो- धयिता । न नियोगभाक् प्रभुरिव न नियोगकर्तेत्यर्थ इति व्याचक्षते ।

 तदिति । तस्मादित्यर्थः । यद्वा-त्वदुक्तमित्यर्थः। अंशमात्रत्वमित्येतद्वस्त्वलङ्का रध्वन्यभिप्रायेण चेत्तदा सिद्धसाधनम् । रसध्वनेरेवांशित्वेनेतरध्वन्योरंशत्वस्य ध्वनिवादिनः सिद्धस्य साधनमित्यर्थः । रसेति । अंशमात्रत्वमितीत्यनुषज्यते । स्वा भ्युपगमेति । स्वसिद्धान्तलक्ष्यप्रसिद्धिसहृदयानुभवैविरुद्धमित्यर्थः । ननु कीर्त्यादि फलान्तराणामपि सत्त्वात् 'सहृदयमनःप्रीतये' इत्यस्योपलक्षणत्वमभ्युपेत्य तान्यपि कुतो नोक्तानीत्यत्राह-तत्रेत्यादि । तत्र इति प्राधान्येनानन्द एवोक्त इति सम्बन्धः । तत्र काव्ये । स्वर्गेति । स्वर्गः निरतिशयानन्दः फलं यस्यास्ताम् । शङ्कते-श्रोतृ णामिति । व्युत्पत्तिश्च प्रीतिश्च व्युत्पत्तिप्रीती । यथोक्तमिति । भामहेनेति शेषः । वैचक्षण्यं व्युत्पत्तिम्। काव्यनिषेवणमिति निबन्धनमिति च पाठः। समाधत्ते- तथाऽपि तत्रेति । तत्र व्युत्पत्तिप्रीत्योर्मध्ये । प्रधानं प्रधानफलम् । विपक्षे बाधक- प्रदर्शननेनोक्तं द्रढयति-अन्यथेत्यादि । अन्यथा प्रीतिरूपप्रधानफलकत्वाभावे । अस्य काव्यरूपस्य वेदादिभ्यः इतिहासादिभ्यश्च को विशेषः ? व्युत्पत्तिहेतुत्वस्य समानत्वेन विशेषो न स्यादित्यर्थः । व्युत्पत्तिहेतुत्वं विष्वपि साधारणमिति दर्शयितु-


 १. यन्न दुःखेन सम्भिनं न च ग्रस्तमनन्तरम् ।

अभिलाषोपनीतं च तत्पदं स्वःपदास्पदम् ॥
इति स्वर्गस्वरूपं बोध्यम् ।

 २. भामहका., १.२.