पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
प्रथमोद्योतः


लोचनम्

वादभाजः सहृदयाः । यथोक्तम्-

योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः ।
शरीरं व्याप्यते तेन शुष्कं काष्टमिवाग्निना ॥ इति ॥

 आनन्द इति । रस चर्वणात्मनः प्राधान्यं दर्शयन् रसध्वनेरेव सर्वत्र मुख्यभूत- मात्मत्वमिति दर्शयति । तेन यदुक्तम्-

ध्वनिर्नामापरो योऽपि व्यापारो व्यञ्जनात्मकः ।
तस्य सिद्धेऽपि भेदे स्यात्काव्येंऽशत्वं न रूपता ॥

 इति तदपहस्तितं भवति । तथा ह्यभिधाभावनारसचर्वणात्मकेऽपि त्र्यंशे काव्ये रसचर्वणा तावज्जीवितभूतेति भवतोऽप्यविवादोऽस्ति । यथोक्तं त्वयैव-

काव्ये रसयिता सर्वो न बोद्धा न नियोगभाक् । इति ।

बालप्रिया

स्मन् पक्षे समानं हृदयं येषामिति बहुव्रीहिरिति भावः। उक्तार्थे प्रमाणमाह-यथोक्त- मिति । योऽर्थ इति । यः हृदयसंवादी स्वहृदयेन तन्मयीभवनलक्षणसंवादशीलः, तद्विषयः सहृदयदलाष्यो विभावादिलक्षणोऽर्थः । तस्य भावः भावना निरन्तरचर्वणा । रसोद्भवः चर्वणाप्राणस्य रसस्याभिव्यक्तिहेतुः । शरीरमित्यादि । तेनार्थेन हृदय- व्याप्तिपूर्वक सहृदयशरीरमपि व्याप्यते । अत एव पुलकाद्याविर्भावः । शुष्कं काष्ठं न शिलादि । अनेन दृष्टान्तेन दार्ष्टान्तिके रत्यादिवासनासत्वमप्यासूत्रितम् । शुष्कमि त्यनेन काव्यानुशीलनकृतमनोवैशद्यञ्च । आनन्दपदोपादानफलमाह-रसेत्यादि । रस- चर्वणैवात्मा स्वरूपं यस्य स आनन्दः तस्य । प्राधान्यं वस्त्वलङ्कारध्वनिभ्यां प्रा- धान्यम् । दर्शयतीति । वस्त्वलङ्काररसेषु रसध्वनेरेव प्राधान्यमितरयोस्तु तत्पर्यव- सायितया गौणमिति दर्शयितुमेतदुक्तमित्यर्थः। एतत्प्रदर्शनेन परपक्षोऽपि निराकृत इत्याह-तेनेत्यादि । तेन रसध्वनेर्मुख्यत्वप्रदर्शनेन । यदुक्तमिति । भट्टनायकेनेति शेषः । तदपहस्तितं निराकृतमिति सम्बन्धः । ध्वनिरिति । नामेत्यनेन पारोक्ष्य दर्शयन् स्वानभिमतत्वं सूचयति। अपरः अभिधाभावनाभ्यां भिन्नः । योऽपीति । अयुक्तस्याङ्गीकारद्योतकोऽपिशब्दः । तस्येति । तस्य अभिधाभावनाभ्यां भेदे सि- द्देऽपि । वस्तुतो निरूप्यमाणे भेदो न सिध्यतीति भावः । स्यादिति । तस्य काव्ये अंशत्वं स्यात् रूपता आत्मत्वरूपमंशित्वम् । न स्यादित्यर्थः । ध्वनिः काव्यांशभूतः शब्दव्यापारत्वादभिधावदिति प्रयोगः । रसध्वनेरात्मत्वप्रदर्शनमात्रेण कथमेतदपहस्ति- तमित्यत उपपादयति-तथाहीत्यादि । अभिधा मुख्या अमुख्या च। भावना भावकत्वम् । रसचर्वणा भोगकृत्वम् । एतदुपरि वक्ष्यते। त्र्यंशेऽपीत्यन्वयः। त्वयेति भट्टनायकेनेत्यर्थः ।

 काव्य इति । रसयिता रसचर्वणाशीलः । सर्वः काव्ये अधिकारीति शेषः। न बोद्धा इतिहासादाविव बोद्धा सर्वो न, तथा न नियोगभाक् वेदादाविव नियो-