पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
सटीकलोचनोपेतध्वन्यालोके


अथ च रामायणमहाभारतप्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्धव्यवहारं लक्षयतां सहृदयानामानन्दो मनसि लभता प्रतिष्ठामिति प्रकाश्यते ॥ १ ॥


लोचनम्

इत्यादिना यत्सामयिकत्वं शङ्कितं तन्निरवकाशीकरोति । रामायणमहाभारतशब्दे- नादिकवेः प्रभृति सर्वैरेव सूरिभिरस्यादरः कृत इति दर्शयति । लक्षयतामित्यनेन वाचां स्थितमविषय इति परास्यति । लक्ष्यतेऽनेनेति 'लक्षो लक्षणम् । लक्षण निरूपयन्ति लक्षयन्ति, तेषां लक्षणद्वारेण निरूपयतामित्यर्थः । सहृदयानामिति । येषां काव्या- नुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता ते स्वहृदयसं-

बालप्रिया

र्भूतत्वमिति भावः । अनेनाद्याभाववादो निराकृतः । इति परास्यतीति । 'तत्स्वरूपं ब्रूम'इत्यस्य लक्षणप्रदर्शनेन ध्वनिस्वरूप प्रकाशयाम इति खल्वर्थः। ततश्चेह प्रदर्शित- लक्षणद्वारा सहृदयानां ध्वनेनिरूपणं भवति । एवं चौक्तनिरासः सिध्यतीति भावः । निर्वचनपूर्वकमुक्तमुपपादयति-लक्ष्यत इत्यादि । इति लक्षो लक्षणमिति । लक्षश- ब्दः करणघञन्त इति भावः । लक्षेणेति । लक्षशब्दात् "प्रातिपदिकाद्धात्वर्थ' इत्यनेन निरूपणार्थे णिजिति भावः । अप्रसिद्धार्थकत्वात्सहृदयपदं व्याचष्टे-येषामि- त्यादि । काव्यानामनुशीलनं शब्दपाठोऽर्थानुसन्धानं च। तस्य अभ्यासः पौ- नःपुन्यं तद्वशात् । विशदीति । विशदीभावो रसावेशौन्मुख्यम्। मनसो मुकुररूपणेन स्वतो वैशद्येऽपि संस्कारवशादतिरेकः प्रकाश्यते । वर्णनीयेति । वर्णनीयं नायकादिवि- भावादि । तन्मयीभवनस्य तत्तादात्म्यापत्तिरूपस्य योग्यता सामर्थ्यमित्यर्थः । 'ते सहृदया' इति सम्बन्धः । उच्यन्त इति शेषः । अनेन रूढिर्दर्शिता । योगमप्याह- स्वेति । स्वहृदयमेव संवादः संवादकप्रमाणं, तद्भाजः विमलतरेण हृदयेन सह वर्तन्त इत्यवयवार्थः । यद्वा-स्वस्मिन् कविहृदयं संवादकत्वेन भजन्तीति तथा । अ-


 १. यद्यप्यत्र करणे घञ् दुर्लभः, ल्युटा वाधात् , तथापि 'उपदेशेऽजनुनासिक इत्' (पा. सू., १. ३. २.) इति सूत्रम्थोपदेशपदसाधुत्वप्रतिपादनपरमहाभाष्यो- तदिशा लक्षधातोः बाहुलकात करणे घनि लक्ष इत्यस्य सिद्धिः । मम त्विदं प्रतिभाति- लक्षयतामित्वस्य निरूपयतामित्यर्थः। निरूपणं नाम लक्षणप्रयोज्यलक्ष्यविषयकबोधा- नुकूलो व्यापारः। तथा च धात्वर्थेनैव लक्षणादिना निरूपणस्य सद्गृहोतत्वात् अग- तिकगतिवाहुलकमाश्रित्य करणघजन्तव्युत्पादनप्रयासः किमर्थ इति सुधियो विभा- वयन्विति ।

 २. 'ईच गणः' (पा. सू.., ५. ४.९७.) इति सूत्रस्थं वार्तिकमिदम् । यद्यपी- दृशधात्वर्थे णिच् न क्वचिदुदाहृतः, तथापि 'धात्वर्थ' इत्युक्तस्तद्भवितुं शक्नोतीति भावः ।