पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
प्रथमोद्योतः


लोचनम्

सङ्गतिः । प्रयोजनं च नाम तत्सम्पादकवस्तुप्रयोक्तृताप्राणतयैव तथा भवतीत्याशयेन 'प्रीतये तत्स्वरूपं ब्रूम' इत्येकवाक्यतया व्याख्येयम् । तत्स्वरूपशब्दं व्याचक्षाणः सं- क्षेपेण तावत्पूर्वोदीरितविकल्पपञ्चकोद्धरणं सूचयति-सकलेत्यादिना । सकलशब्देन सत्कविशब्देन च प्रकारलेशे कस्मिंश्चिदिति निराकरोति । अतिरमणीयमिति भा- क्ताद्वयतिरेकमाह । न हि 'सिंहो बटुः' 'गङ्गायां घोषः' इत्यत्र रम्यता काचित् । उप- निषद्भूतशब्देन तु अपूर्वसमाख्यामात्रकरण इत्यादि निराकृतम् । अणीय सीभिरि- त्यादिना गुणालङ्कारानन्तर्भूतत्वं सूचयति । अथ चेत्यादिना 'तत्समयान्तःपातिन'

बालप्रिया

इत्यमुमर्थ प्रयोजनपदार्थनिर्वचनपूर्वकं प्रदर्शयति-प्रयोजनञ्चेत्यादि । तदिति । तस्य प्रयोजनस्य सम्पादकं यद्वस्तु तस्य, तत्प्रतीति यावत् । या प्रयोक्तृता प्रयोज- कता, सा प्राणो यस्य तद्भावेनैव तत्प्रेरकत्वस्वभावशालितयैवेति यावत् । तथा प्रयो- जनम् । भवतीति । 'भातीति च पाठः । नामेति प्रसिद्धौ । अनेन प्रयुङ्क्ते प्रेरय. तीति प्रयोजनपदव्युत्पत्तिर्दर्शिता । इत्याशयेनेति । अत्र विमतिनिवृत्तेः न ध्वनि- स्वरूपवचनप्रयोजकता, तज्ज्ञानवत्तस्याः स्वयमपुरुषार्थत्वात् । किन्तु प्रीतेरेवेति सैव तस्य मुख्यं प्रयोजनम् । विमतिनिवृत्तिस्तु तदङ्गमेवेत्यभिप्रायेणेत्यर्थः । इत्येकवा- क्यतयेति । इत्येवंविधविशिष्टैकार्थप्रतिपादकतयेत्यर्थः । व्याख्येयमिति । व्याख्यात- व्यमित्यर्थः । अतस्तथा तन्मूलं वृत्तिकृता व्याख्यातमिति विमतिनिवृत्तेरपि मुख्य प्रयो- जनत्वसम्भवे 'तेन तत्स्वरूपं ब्रूमः' 'सहृदयमनःप्रीतये तत्स्वरूपं ब्रूमः' इति च व्या. ख्येयतया वाक्यभेदः स्यादिति च भावः । यद्वा-व्याख्येय मित्यत्र व्याख्या इय- मिति छेदः । इयं व्याख्या वृत्तिकृतो व्याख्या । इत्येकवाक्यतया इत्यस्य या एक. वाक्यता तत्प्रदर्शिकेत्यर्थः । 'सकले'त्यादिध्वनिस्वरूपविशेषणप्रयोजनं दर्शयति- तत्स्वरूपशब्दमित्यादिना । संक्षेपेणेति । उत्तरत्र विस्तरेण करिष्यति । संक्षेपेण विस्तरेण च प्रतिपाद्यमानो ह्यर्थः प्रतिपित्सूनां प्रतीतिपथमनायासेनावतरेदिति भावः । उद्धरणं प्रतिक्षेपम् । इति निराकरोतीति । यतः सकलशब्देन निखिलविषयव्या- तत्वं सत्कविशब्देन प्रमाणसिद्धत्वात्प्राधान्यं चोक्तं, तस्मादखिलकाव्यविषयव्याप्तद्यभाव- कृतमप्राधान्यकृतं वा प्रकारलेशत्वं निराकृतमित्यर्थः । व्यतिरेकं वैलक्षण्यम् । नहीं- ति । पराक्रमातिशयादिव्यंग्यसद्भावेऽपि तयोर्वाक्ययोर्गुणालङ्कारोपस्कृतशब्दार्थात्मक- काव्यत्वाभावानात्यन्तरमणीयतेत्यर्थः । उपनिषद्भूतेति । काव्यतत्त्वानभिज्ञैर्दुर्ज्ञेय- त्वादतिरहस्यभूतेत्यर्थः । अनेन सर्वोत्कृष्टत्वप्रदर्शनात्समाख्यामात्रत्वस्य निरासः सूचित इत्याह-उपनिषदित्यादि । सूचयतीति। वृत्तौ अणीयसीभिरपी ति। सूक्ष्मतराभिरति निशिताभिरपीत्यर्थः| तादृशीभिर्बुद्धिभिरप्रकाशितपूर्वस्य अर्थ स्थूलबुद्धि..धन्त


 १. ध्वनिखरूपनिरूपणमित्यर्थः ।