पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

मनसि आनन्दो निर्वृत्यात्मा चमत्कारापरपर्यायः, प्रतिष्ठां परैविपर्यासाद्युपहतेर नुन्मूल्यमानत्वेन स्थेमानं, लभतामिति प्रयोजनं सम्पादयितुं तत्स्वरूपं प्रकाश्यत इति

बालप्रिया

तेनात्र विवक्षितमाह-निर्वृत्त्यात्मेति । ननु हेत्वन्तरप्रापिताप्रतिष्टत्व एव प्रतिष्ठां लभतामि'त्युक्तेः प्रसक्तिरित्यत आह-परैरित्यादि। परैः अभाववाद्यादिभिः । विप- र्यासादीत्यादिपदेन सन्देहलक्षणकरणाज्ञानयोः सङ्ग्रहः । अनुमूल्यमानत्वेन अनु- च्छिद्यमानत्वेन । यथा परैरुच्छिद्यमानो न भवति तथेत्यर्थः । प्रतिष्ठापदविवरणम्- स्थेमानमिति। स्थिरतया वर्तमानमित्यर्थः । 'लभतामितीति वृत्तिस्थेनेतिपदेन गम्य- मानमर्थमाह-इति प्रयोजनं सम्पादयितुमिति । कारिकायां 'प्रीतये' इत्यत्र प्रीतिं सम्पादयितुमित्यर्थे 'क्रियार्थे' त्यादिसूत्रेण चतुर्थीति भावः । 'ध्वनेः स्वरूपामि- त्यस्य 'लक्षयता'मित्येतत्कर्मतया, 'प्रकाश्यत' इत्यत्र प्रथमान्ततया तदनुषङ्गं दर्शय. न्नाह-तत्स्वरूपमिति । सङ्गतिरिति । सम्बन्ध इत्यर्थः । अत्र 'तेन तत्त्वरूपं ब्रूम' इत्युक्त्या विमतिनिवृत्तेस्तत्स्वरूपवचनप्रयोजनत्वं यद्यपि लभ्यते, तथापि तस्याः न मुख्य प्रयोजनत्वम्, किन्तु प्रीतेरेव । सा तु प्रीतेरङ्गमित्येतत्पर स्तेने त्यादिचतुर्थपाद


 १. तत्स्वरूपमिति । 'ध्वनेस्स्वरूपं' इत्यस्यावृत्त्या 'लक्षयतामित्यत्र लक्षधात्वर्थे 'प्रकाश्यत' इत्यत्र काशधात्वर्थे चोभयत्र कर्मतयान्वय इत्यर्थः । 'ध्वनेस्वरूप मिति द्वितीयान्तम् । अत्र च 'स्वादुमि णमुल्' (पा. सू., ३. ४. २६) इति सूत्रस्थभा- पदन्तु प्रधानीभूतकाशधात्वर्थानुरोधेन प्रथमान्तमेव, न तु गुणीभूतलक्षणक्रियानुरोधेन ध्यानुवादिन्याविमे कारिके प्रमाणतया द्रष्टव्ये-

प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ॥
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति ।।

 तेन 'क्षुधं प्रतिहन्तुं शक्यं' इति कैयदप्रयोगः, 'ओदनं पक्त्वा भुज्यते' 'पूज- यितुं शक्यते हरिं' इत्यादयश्च प्रयोगाः च्युतसंस्कारा एव । विस्तरस्तु अनभिहिताधि- कारस्थशब्दरत्नादावनुसन्धेयः।

 २. 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' ( पा. सू., २. ३. १४.) इति सम्पूर्ण सूत्रम् ।

 ३. मुख्यत्वञ्च-अन्येच्छानधोनेच्छाविषयत्वम् । अन्यासामुपायैच्छानां उपेया- नन्देच्छाधीनत्वम् । उपेयानन्देच्छायास्तु नोपायेच्छाधीनत्वमिति अन्या इच्छा ( उपा- येच्छा ) तदनधीना उपेयभूतानन्देच्छा, तद्विषयत्वं प्रीत्यपरपर्याये आनन्देऽस्तीति मुख्यत्वं तस्य सुस्पष्टसमन्वय मिति ।