पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
प्रथमोद्योतः


 यद्यपि च ध्वनिशब्दसंकीर्तनेन काव्यलक्षणविधायिभिर्गुणवृत्तिरन्यो वा न कश्चित्प्रकारः प्रकाशितः, तथापि अमुख्यवृत्त्या काव्येषु व्यवहारं


लोचनम्

गुणाः सामीप्यादयो धर्मास्तैक्ष्ण्यादयश्च । तैरुपायैर्वृत्तिरर्थान्तरे यस्य, तैरुपायैर्वृ- त्तिर्वा शब्दस्य यत्र स गुणवृत्तिः शब्दोऽर्थो वा । गुणद्वारेण वा वर्तनं गुणवृत्तिरमुख्यो- ऽभिधाव्यापारः । एतदुक्तं भवति-ध्वनतीति वा, ध्वन्यत इति वा, ध्वननमिति वा यदि ध्वनिः, तथाप्युपचरितशब्दार्थव्यापारातिरिक्तो नासौ कश्चित् । मुख्यार्थे ह्यभिधैवेति पारिशेष्यादमुख्य एव ध्वनिः, तृतीयराश्यभावात् ।

 ननु केनैतदुक्तं ध्वनिर्गणवृत्तिरित्याशङ्कयाह-यद्यपि चेति । अन्यो वेति ।

बालप्रिया

न्विवृणोति-गुणा इत्यादिना । उपायैः निमित्तैः । अर्थान्तरे तीरादौ माणव- कादौ च । यस्य गङ्गादिसिंहादिशब्दस्य । यत्रेति । तीराद्यर्थे इत्यर्थः । गुणद्वारेण सामीप्यतैक्ष्ण्यादिद्वारेण । वर्तनमिति वृत्तिशब्दार्थविवरणम् । पर्यवसितमाह- अमुख्य इति । अमुख्य इत्यनेन लक्षणागौण्योद्वयोर्ग्रहणम् । किं तत इत्यत आह- एतदित्यादि । उपचरितेति । गुणवृत्तिशब्दप्रतिपाद्येभ्यः शब्दार्थव्यापारेभ्योऽतिरिक्त इत्यर्थः । असौ कश्चित् ध्वनिर्नाम कश्चित् । ननु यदि ध्वन्यभावाभिप्रायेण ध्वनेर्गुण- वृत्यभेदः साध्यते, तर्ह्यभिधाया अभेदोऽपि साध्यतामित्यत्राह-मुख्यार्थ इति । एव- कारेण नात्र ध्वननस्य सम्भावनाऽपीति दर्शयति । फलितमाह-इतीति । पारिशेष्या- दिति । शिष्यमाणे संप्रत्ययः परिशेषः, स एव पारिशेष्यम् , तस्मादित्यर्थः । अमुख्य एव गुणवृत्तिरेव । अत्र हेतुः-तृतीयेति । वाचकवाच्याभिधारूपः प्रथमो राशिः, लक्ष- कलक्ष्यलक्षणारूपो द्वितीयः, व्यञ्जकव्यंग्यव्यजानरूपस्तृतीयो भवदभिमतः, तस्याभा- वादित्यर्थः । तथा च ध्वनिर्नाम गुणवृत्तिरेव, अमुख्यत्वादिति फलितम् ।

 नन्वित्यादि । इति शब्दस्योभयत्र सम्बन्धः । इति केनोक्तं इत्याशंक्याहेति । 'यद्यपी'त्यादिना शङ्कां कृत्वा 'तथापीत्यादिना समाधान माह इत्यर्थः । वृत्तौ 'अन्यो वे'त्यत्र गुणवृत्तेरन्यो मुख्य इत्यर्थभ्रमः स्यादतो व्याचष्टे-गुणेति। वाशब्दो दृष्टान्तार्थः । यथा अभाववादिभिर्ध्वनिर्गुणालङ्कारप्रकार इति नोक्तं, तथा भाक्तवादिभिरपि ध्वनिर्गुण-


 १. 'एतदुक्तं भवतीत्यादिग्रन्थस्यायमाशयः-ध्वनिर्गुणवृत्तिभिन्नः कश्चित्पदार्थो नास्तीति प्रतिज्ञाय 'न हि प्रतिज्ञामात्रेण वस्तुसिद्धिरित्याशयेन तदुपपादकमाह- 'मुख्यार्थ' इत्यादिना । 'इदं पदमिममर्थमभिधत्त' इति वाक्येन प्रतीयमानाद्व्यापारात् मुख्यार्थनिरूपितात् 'इदं पदमिममर्थ ध्वनतीति वाक्येन प्रतियमानोऽमुख्यार्थनिरूपितो व्यापारो भिन्न एव । स च गुणवृत्तिरूप एव पर्यवस्यति । कुत इति चेत् -मुख्यामु- ख्यव्यापारभिन्नतृतीयराश्यभावात् इति ।