पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

आगतो भाक्त इति गौणो लाक्षणिकश्च । मुख्यस्य चार्थस्य भङ्गो भक्तिरित्येवं मुख्यार्थ- बाधा, निमित्तं, प्रयोजनमिति त्रयसद्भाव उपचारवीजमित्युक्तं भवति । काव्यात्मानं गुणवृत्तिरिति । सामानाधिकरण्यस्यायं भावः-यद्यप्यविवक्षितवाच्ये ध्वनिभेदे 'निःश्वासान्ध इवादर्शः' इत्यादावुपचारोऽस्ति, तथापि न तदात्मैव ध्वनिः, तद्व्यतिरे- केणापि भावात् , विवक्षितान्यपरवाच्यप्रभेदादौ अविवक्षितवाच्येऽप्युपचार एव, न ध्वनिरिति वक्ष्यामः । तथा च वक्ष्यति-

भक्तया विभर्ति नैकत्वं रूपभेदादयं ध्वनिः ।
अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तथा ॥ इति ॥
कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम् । इति च ।

बालप्रिया

व्याख्याप्रकारस्य फलमाह-एवमित्यादि । भङ्गार्थव्याख्यानस्य मुख्यार्थवाधारूपबी- जसिद्धिः, सेवनरूपार्थव्याख्यानस्य निमित्तसिद्धिः, श्रद्धातिशयार्थव्याख्यानस्य प्रयो- जनसिद्धिश्च फलमिति भावः । नयशब्देन सम्भूयैव बीजत्वमिति दर्शयति-उपचा. रबीजमिति । उपचारो नाम लक्षणा गौणी च । लक्षणया गौण्या च व्यवहारः । लक्ष्यगौणार्थबोधो वा । उपचारो नामान्यत्र अन्यावाप इति केचित् ।

 ननु ध्वनिर्नाम गुणवृत्तिव्यतिरेकी नास्तीति वक्तव्ये सामानाधिकरण्येन निर्देशस्य कोऽभिप्राय इत्यत आह-सामानाधिकरण्यस्येति । 'तं भाक्तमिति मूले 'ध्वनि- संज्ञितमित्यादिना वृत्तौ च सामानाधिकरण्येन निर्देशस्येत्यर्थः । यद्वा-इति सामाना- धिकरण्यस्येति । एवं सामानाधिकरण्येन निर्देशस्येत्यर्थः । अस्मिन् पक्षे काव्यात्मा- नमित्यादिप्रतीकधारणन्नेति बोध्यम् । पदयोस्सामानाधिकरण्यन्नामैकधर्मिबोधकत्वम् । अयं भाव इति। ध्वनिगुणवृत्त्योस्तादात्म्यमेव ध्वनिवादिभिर्न्निरसनीयं, न तु ध्वने- स्सर्वथोपचारस्पर्शित्वमपीत्यमुमर्थन्द्योतयितुं, सिद्धान्तविरुद्धतादात्म्यपक्षोपक्षेपार्थोऽयं सामानाधिकरण्येन निर्देश इति भाव इत्यर्थः । तमेव भावं विवृणोति-यद्यपीत्या- दि । उपचार इति । गुणवृत्तिरित्यर्थः । तदात्मा उपचारात्मा । तद्व्यतिरेकेणापि उपचारं विनापि । भावात् ध्वनेस्सत्वात् । कुत्रेत्यत आह-विवक्षितान्यपर वाच्यप्रभेदादाविति । अविवक्षितवाच्य इति । अविवक्षितवाच्यध्वनावि- त्यर्थः । वक्ष्याम इति । रामोऽस्मीत्यादाविति भावः । वक्ष्यतीति । मूलकार इति शेषः । वृत्तौ ‘गुणवृत्तिरिति भाक्तशब्दस्य व्याख्यानं तत्पदेन प्रकृते विवक्षितानर्था-


 १. उपचार एव न ध्वनिरितीति । उपचारस्य तत्र सत्वेऽपि न ध्वन्युपचारयो- स्तादात्म्यम् , रूपभेदादित्यर्थः । तथा च प्रयोगः-ध्वनिरुपचाराद्भिन्नः, तद्रूपभिन्न- रूपवत्त्वादिति ।