पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
प्रथमोद्योतः


लोचनम्

 गुणसमुदायवृत्तेः शब्दस्यार्थभागस्तैक्ष्ण्यादिर्भक्तिः, तत आगतो गौणोऽर्थों भाक्तः। भक्तिः प्रतिपाद्ये सोमीप्यतैक्ष्ण्यादौ श्रद्धातिशयः, तां प्रयोजनत्वेनोद्दिश्य तत

बालप्रिया

 गौणार्थस्याप्युक्तरीत्यैव लाभेऽपि तल्लाभः प्रकारान्तरेणापि वक्तव्य इत्याशयेनाह- गुणेति । गुणसमुदाये वृत्तिर्यस्य, तस्य गुणसमुदायं प्रतिपादयत इत्यर्थः । शब्दस्ये- ति । सिंहादिशब्दस्येत्यर्थः । सिंहादिशब्दा हि सिंहत्वादिजातिं तद्विशिष्टव्यक्तिं वा अभिदधाना अपि स्वार्थाविनाभूतान् शौर्यादिगुणानप्याक्षेपात्प्रतिपादयन्तीति भावः । अर्थभागः गुणसमुदायात्मकाथैकदेशः । तैक्ष्ण्यादिः शौर्यादिः । सिंहो माणवक- इत्यादौ शौर्यादेर्गुणैकदेशस्यैव प्रतीतिरिति भावः । केचित्तु-गुणसमुदायवृत्तेरित्यस्य गुणद्वारा समुदाये गुणिनि माणवकादौ वृत्तिर्यस्य तस्येत्यर्थमाहुः । तत इति । तैक्ष्ण्या- देरित्यर्थः । सारूप्यानिमित्तादिति यावत् । अथ भक्तिशब्दस्य भावव्युत्पत्त्याप्यर्थमा- ह-भक्तिरित्यादि । प्रतिपाद्य बोधनीये । सामीप्यतैक्ष्ण्यादाविति ।

 ननु गङ्गायां घोष इत्यादिस्थले लक्ष्यतीरादौ गङ्गागतपावनत्वादिकमेव प्रतिपाद्यं, न तु सामीप्यादि । एवं सिंहो माणवक इत्यादौ माणवकादौ सिंहादिताद्रूप्यं पराक्रमा- तिशयादिकं वा । स्पष्टमिदं काव्यप्रकाशादौ । वक्ष्यते चैवमुपरि लोचने । तथा च सामीप्यतैक्षण्यादावित्युक्तिः कथं सङ्गच्छत इति चेत् ; अत्र केचित्-पाठोऽयं लेख- कप्रमादागतः पावनस्वादावित्येव पठनीयमिति । परे तु-सामीप्यादेः परम्परया प्रयो- जनसाधनत्वात्सामीप्यपदेन पावनत्वादिकं तैक्ष्ण्यपदेन सिंहताद्रूप्यादिकञ्च लक्षणया विवक्षितमतो नासङ्गतिरित्याहुः । श्रद्धातिशय इति । श्रद्धा वक्तुर्मनसा भजन- मनुसन्धानात्मकं, तस्या अतिशय इत्यर्थः । तामिति । तद्विषयभूतं पावनत्वादिक- मित्यर्थः । यद्वा-श्रद्धातिशयः प्रतिपत्तुः प्रतीतिविशेषः । तामिति । श्रद्धातिशय- रूपां भक्तिमित्यर्थः । पावनत्वादिप्रतीतिमिति यावत् । तत इति । श्रद्धातिशयरूपभक्ते- रित्यर्थः । आगतः प्रयुक्तः । लाक्षणिकश्चेति । शब्द इति शेषः । व्युत्पत्तेरभेदेऽपि प्रकृतिभेदेनार्थान्तरमाह मुख्यस्य चेति । भङ्गो भक्तिरिति । भञ्जिधातोः क्तिन्निति भावः । इतीत्यनन्तरं तत आगतो भाक्त इत्यनुषङ्गः । आगतः प्रतीतः । कथित-


 १. 'मुखं चन्द्र' इत्यादी लक्षणायाः पार्थक्येन मीमांसकमतसिद्धगौणीप्रतिपाद्या- र्थस्यापि भाक्तपदेन संग्रहणाय 'गुणसमुदायेत्यादिना विग्रहान्तरं प्रदर्शितम् ।

 २. अत्र सामीप्येति प्रामादिकम् , कारिकायां तस्य निमित्तत्वेनोक्तेः प्रतिपाद्यत्वा- सम्भवात् । 'तैपण्यादा विति तु युक्तम् । 'अग्निर्माणवक' इत्यादौ तस्य प्रयोजनत्वेन प्रतिपत्तेस्सर्वसम्प्रतिपन्नत्वात् ।