पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
सटीकलोचनोपेतध्वन्यालोके


 भाक्तमाहुस्तमन्ये । अन्ये तं ध्वनिसंज्ञितं काव्यात्मानं गुणवृत्तिरि- त्याहुः।


लोचनम्

पुस्तकेष्वित्यभिप्रायेण भाक्तमाहुरिंति नित्यप्रवृत्तवर्तमानापेक्षयाभिधानम् । भज्यते सेव्यते पदार्थेन प्रसिद्धतयोत्प्रेक्ष्यत इति भक्तिर्धर्मोऽभिधेयेन सामीप्यादिः, तत आगतो भाक्त्तो लाक्षणिकोऽर्थः । यदाहुः-

 अभिधेयेन सामीप्यात्सारूप्यात्समवायतः।

 वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥ इति ॥

बालप्रिया

शब्दः उक्ताभिप्रायक एवेत्यर्थः । यदि पुनश्शब्दस्य विशेषार्थकत्वं, तदा अपरे पुन- रिति वक्तव्यं, तदपहाय पुनश्शब्दस्यादौ पाठः । प्रागुक्तप्रकारापेक्षमुत्तरस्यानन्तर्यन्द- र्शयन् सम्बन्धमवगमयतीति भावः । सम्बन्धश्चावतारिकया दर्शितपूर्वः । ज्ञापकान्तर- रच्चाह ह-उपेति । अन्योन्यासम्बद्धत्वे सति उपसंहारभेदेन भाव्यमिति भावः । 'जग- दुरित्याहुरिति च प्रयुक्तं तद्भावमाह-अभावेत्यादि । उक्तमिति । जगदुरित्यनेने- ति शेषः । पुस्तकेषु अलङ्कारग्रन्थेषु । नित्येति ईश्वरोऽस्तीत्यादिवदत्र नित्यप्र- वृत्ते वर्तमाने लडित्यर्थः । 'नित्यप्रवृत्त' इति भोजसूत्रम् । भाक्तशब्दस्यार्थं व्याख्या- तुम्भक्तिशब्दस्य कर्मव्युत्पत्त्यार्थमाह--भज्यत इत्यादि । भञ्जव्यावृत्तयेऽर्थमाह-- सेव्यत इति । केनेत्यत्राह--पदार्थेनेति । गङ्गादिपदलक्ष्य तीराद्यर्थेनेत्यर्थः । नन्वत्र पदार्थकर्तृकं सेवनन्नाम किमित्यत आह-उत्प्रेक्ष्यत इति । पदार्थेन प्रतीक्ष्यत इत्यर्थः । स्वबोधनिमित्तत्वेनाश्रीयत इति यावत् । अत्र हेतु:-प्रसिद्धतयेति। सामीप्यादेर्निमित्त- त्वेन प्रसिद्ध्येत्यर्थः । यद्वा-पदार्थेन सेव्यत इत्युपचारेणोक्तम् । तेन च वक्तुः प्रतिप- तुर्वा तीरादेगङ्गादिपदेन प्रतिपादने सामीप्यादेर्निमित्तत्वेन पर्यालोचनरूपं यदुत्प्रेक्षण- न्तदत्र विवक्षितमित्याह-प्रसिद्धतयोत्प्रेक्ष्यत इति । वक्त्रा प्रतिपन्ना वेति शेषः । अभिधेयेन सामीप्यादिर्धर्म इति सम्बन्धः । तत आगतः सामीप्यादिनिमित्तात्प्रती- तः। स क इत्यत्राह- -लाक्षणिक इति । लक्ष्य इत्यर्थः । अत्र संवादमाह-यदाहुर- भिधेयेन सामीप्यादित्यादि । अस्यार्थः स्वयमेव वक्ष्यते ।


 १, भज्यत इति । पदार्थेनाऽभिधेयेन, प्रसिद्धतया प्रसिद्धिविशिष्टं ( वैशिष्टयस्य तृतीयार्थत्वात् ) सामीप्यादिनिमित्तं, लक्ष्यार्थबोधनाय उत्प्रेक्ष्यतेऽपेक्ष्यत इत्यर्थः । प्रसिद्धिवैशिष्टयकथनेनाप्रसिद्धानां परम्परासम्बन्धादीनां व्यावृत्त्या नेयार्थत्वदोषस्य सावकाशत्वं सूचितं भवति । अनेन प्रसिद्धार्थप्रतियोगिकलक्ष्यार्थानुयोगिकसामीप्यादि- स्सम्बन्धो लक्षणया लक्ष्यार्थबोधने प्रयोजक इत्युक्तं भवति ।

 २. 'भञ्जू आमर्दन इति धातुपाठः ।