पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
प्रथमोद्योतः


व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् ।
काव्यं तद्ध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो
नो विद्मोऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ॥


लोचनम्

लभाविना मनोरथनान्ना कविना । यतो न सालङ्कृति, अतो न मनःप्रह्लादि । अनेनार्थालङ्काराणामभाव उक्तः । व्युत्पन्नै रचितं च नैव वचनैरिति शब्दालङ्कारा- णाम्। वक्रोक्तिः उत्कृष्टा संघटना, तच्छून्यमिति शब्दार्थगुणानाम्। वक्रोक्तिशून्यशब्देन सामान्यलक्षणाभावेन सर्वालङ्काराभाव उक्त इति केचित् । तैः पुनरुक्तत्वं न परिह्रत- मेवेत्यलम् । प्रीत्येति । गतानुगतिकानुरागेणेत्यर्थः । सुमतिनेति । जडेन पृष्टो भ्रूभङ्गकटाक्षादिभिरेवोत्तरं ददत्तत्स्वरूपं काममाचक्षीतेति भावः ।

 एवमेतेऽभावविकल्पाः शृङ्खलाक्रमेणागताः, न त्वन्योन्यासम्बद्धा एव । तथा हि तृतीयाभावप्रकारनिरूपणोपक्रमे पुनःशब्दस्यायमेवाभिप्रायः, उपसंहारैक्यं च सङ्ग- च्छते । अभाववादस्य सम्भावनाप्राणत्वेन भूतत्वमुक्तम् । भाक्तवादस्त्वविच्छिन्नः

बालप्रिया

सूचयति–'यस्मिन्निति । यस्मिन्’ काव्ये । 'सालङ्कृति’ अत एव 'मनःप्रह्लादि' । 'किञ्चन वस्तु' वर्ण्यमानः कश्चिदर्थो 'नास्ति' । 'व्युत्पन्न'रिति। नैवेति पाठे यदित्यस्या- पकर्षः । यन्नेति च पाठः । 'यत्' काव्यम् । व्युत्पन्नैः अनुप्रासादियोगाद्विचित्रतयोत्पन्नैः 'वचनैः शब्दैः। 'नैव रचितञ्च', तथा यत् 'वक्रोक्तिशून्यञ्च' भवति, तत् तथाविध- मर्थालङ्कारादिशून्यं 'काव्यं ध्वनिना समन्वितमिति प्रीत्या प्रशंसन् जडः ध्वनेस्वरूपं सुमतिना पृष्टस्सन् किमभिदधाति । वयं नो विद्म' इत्यन्वयः। भावार्थं व्याचष्टे-यत इत्यादि । अनेनेति । प्रथमवाक्येनेत्यर्थः । उक्त इति । काव्य इति शेषः । अभाव उक्त इत्यस्य शब्दालङ्काराणां शब्दार्थगुणानामित्यनयोरपि सम्बन्धो बोध्यः । सङ्घ- टनेति । शब्दार्थयोरिति शेषः । व्याख्यानान्तरमनुवदति-वक्रोक्तीत्यादि। वक्रोक्ति- स्सुन्दरतरोक्तिः सौन्दर्यञ्च वैचित्र्यमेव । तत्खलु सामान्यलक्षणमलङ्काराणामिति सर्वाल- ङ्काराभाव उक्तो भवतीत्यर्थः । दूषयति-तैरिति । गतेति । गतस्यानुगतिः गतानु- गतिका । कुत्सायां कः । तस्यामनुरागेण । यद्वा-गते अन्यगमने गतमनुगमनं गतानुगतं तदेषामस्तीति गतानुगतिकाः । स्वयं विचारमकृत्वा परोक्तिमेवानुसरन्त इति यावत् । तेषां सम्भवतानुरागेण । 'सुमतिने ति पदस्य प्रयोजनं व्याचष्टे-जडे- नेत्यादि ।

 किमित्येते विकल्पाः परस्परसम्बद्धा व्याख्याता इति शङ्कायां वृत्तिग्रन्थानुगुण्या- दित्याह-एवमित्यादि । शृङ्खलाक्रमेणागताः परस्परसम्बद्धाः । कुत इत्य- त्राह--तथाहीति । पुनश्शब्दस्यायमेवाभिप्राय इति । 'पुनरपर' इत्यत्र पुन- -