पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
सटीकलोचनोपेतध्वन्यालोके


सहृदयत्वभावनामुकुलितलोचनैर्नृत्यते, तत्र हेतुं न विद्मः । सहस्रशो हि महात्मभिरन्यैरलङ्कारप्रकाराः प्रकाशिताः प्रकाश्यन्ते च । न च तेषामेषा दशा श्रूयते । तस्मात्प्रवादमात्रं ध्वनिः । न त्वस्य क्षोदक्षमं तत्त्वं किञ्चि- दपि प्रकाशयितुं शक्यम् । तथा चान्येन कृत एवात्र श्लोकः-

यस्मिन्नस्ति न वस्तु किञ्चन मनःप्रहादि सालंकृति


लोचनम्

धायिभिस्तच्छ्रवणोद्भूतचमत्कारैश्च प्रतिपत्तृभिरिति शेषः । ध्वनिशब्दे कोऽत्यादर इति भावः । एषा दशेति । स्वयं दर्पः परैश्च स्तूयमानतेत्यर्थः । वाग्विकल्पाः वाक्प्रवृत्तिहेतुप्रतिभाव्यापारप्रकारा इति वा। तस्मात्प्रवादमात्रमिति । सर्वेषाम- भाववादिनां साधारण उपसंहारः । यतः शोभाहेतुत्वे गुणालङ्कारेभ्यो न व्यतिरिक्तः, यतश्च व्यतिरिक्तत्वे न शोभाहेतुः, यतश्च शोभाहेतुत्वेऽपि नादरास्पदं तस्मादित्यर्थः । न चेयमभावसम्भावना निर्मूलैव दूषितेत्याह-तथा चान्येनेति । ग्रन्थकृत्समानका-

बालप्रिया

प्रतिपत्तारः, तैस्त्रिभिरित्यर्थः । केचित्तु-अनादरन्दर्शयतीति, अतद्युक्तकाव्येति, अत- च्छ्रवणेति च पठन्ति । तत्पक्षे अनादरमित्यस्याभाववादिनां ध्वनावनादरमित्यर्थः अतद्युक्तेत्यादि तल्लक्षणकृद्भिरित्यस्य अतच्छ्वणेत्यादि प्रतिपत्तृभिरित्यस्य च विशे. षणं बोध्यम् । फलितमाह-ध्वनिशब्द इति । योऽयं ध्वनिवादिनामत्यादरः स ध्वनिशब्दवाच्यस्य कस्यचिदर्थान्तरस्य वक्तुमशक्यत्वाद्ध्वनिशब्दमात्रविषयकः पर्यवस्यति । स चोपहासहेतुरेव सम्पद्यत इति भावः । परैरिति । ध्वनियुक्तकाव्यवि- धायिभिरित्यर्थः । सिंहावलोकनन्यायेन 'वाग्विकल्पानामानत्यादि'त्यत्र वाग्विकल्पपद- मन्यथा व्याचष्टे-वागित्यादि । अभाववादस्यान्योन्यसम्बद्धतया उपन्यासादैक्य- सिद्धरुपसंहारेणापि तदनुरूपेण भाव्यमित्याशयेनाह–सर्वेषामिति । साधारण्यं स्पष्टयति—यत इत्यादि । नादास्पदमिति । गुणालङ्कारेष्वेवान्तर्भावेन शब्द- मात्रस्यैवापूर्वत्वादिति भावः । 'तथाचेत्यादिग्रन्थः पूर्वोक्ताभाववादसम्भावनामूलप्रदर्श- नपर इत्याशयेन तद्ग्रन्थमवतारयति-न चेत्यादि । इयमभावसम्भावना पूर्वोपदर्शिता अभाववादसम्भावना । निर्मूलैव सती न दूषिता, किन्तु समूलै- वेति भावः । करिष्यमाणस्याप्यभाववाददूषणस्य बुद्धिस्थत्वेन कृतप्रायत्वादूषितेति भूतनिर्देशः । इत्याहेति । इत्याशयेनाहेत्यर्थः । न चास्य 'यस्मिन्नित्यादिश्लो- कस्य श्रुतत्वेन 'जगदुरिति लिङ्बोध्यस्य पारोक्ष्यस्य समर्थनाय 'न चास्माभिरभा- ववादिनां विकल्पाः श्रुताः' इति प्रागुक्तं कथं सङ्गच्छत इति वाच्यम् । यथाश्रुतार्थ- कस्यास्य श्लोकस्य श्रुतत्वेऽपि पूर्वोपदर्शितानां बहूनामभाववादप्रकाराणां विशिष्या- श्रुतत्वेन तद्वचनस्य तत्परत्वात् । ग्रन्थकृदित्यादिना मत्सरं तदुक्तेर्हेतुत्वेन