पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
सटीकलोचनोपेतध्वन्यालोके


दर्शयता ध्वनिमार्गो मनाक्स्पृष्टोऽपि न लक्षित इति परिकल्प्यैवमुक्तम्- 'भाक्तमाहुस्तमन्ये' इति ।


लोचन

गुणालङ्कारप्रकार इति यावत् । दर्शयतेति । भट्टोद्भटवामनादिना । भामहेनोक्तं- 'शब्दाश्छन्दोभिधानार्थाः' इति अभिधानस्य शब्दाद्भेदं व्याख्यातुं भट्टोद्भटो बभा- षे–'शब्दानामभिधानमभिधाव्यापारो मुख्यो गुणवृतिश्च' इति । वामनोऽपि 'सादृश्या- ल्लक्षणा वक्रोक्तिः' इति । मनाक्स्पृष्ट इति । तैस्तावद्ध्वनिदिगुन्मीलिता, यथा-

बालप्रिया

वृत्तिरिति कण्ठतो नोक्तमित्यर्थः। 'दर्शयतेति मनाक् स्पर्शे हेतुः । अत्रैकवचनं सामान्या- भिप्रायकम् । अनेन काव्यलक्षणविधायिन एव विवक्षिता इत्याशयेन पूरयति-भट्टे. त्यादि । क्रमेण तद्वचने दर्शयति-भामहेनेत्यादि "इतिहासाश्रयाः कथाः । लोको युक्तिः कलाश्चेति मन्तव्याः काव्यहेतवः” इति शिष्टं पादत्रयम् । इत्युक्तमित्यन्वयः । ततः किमित्यत आह-अभिधानस्येति । अत्रेति शेषः । वामनोऽपीति बभाषे इत्यनुषङ्गः । सादृश्यादिति । वक्रोक्तिः तन्नामालङ्कारः। तथा चाभिधानमिति वचनेन भामहो 'गुणवृत्तिरिति वचनेन भट्टोद्धटो 'लक्षणेति वचनेन वामनश्च काव्येषु गुणवृत्या व्यवहारं दर्शितवन्त इति फलितार्थः । 'ध्वनिमार्गो मनाक् स्पृष्टोऽपि न लक्षितः' इत्यमुं भागं पूर्वपक्षोपक्षेपानुगुण्येन व्याचष्टे-तैस्तावदित्यादि। सम्प्रतिपत्तौ तावच्छब्दः । 'ध्वनिमार्गों मनाक्स्पृष्ट' इत्यस्य विवरणं-ध्वनिदिगुन्मीलितेति । गुणवृत्तेः प्रयोजनाविनाभावात्प्रयोजनस्य च वक्ष्यमाणविधया व्यञ्जनव्यापारैकगोचर- त्वाच्च गुणवृत्या व्यवहारं दर्शयद्भिरेव भामहभट्टोद्भटादिभिः ध्वनेर्गमकं प्रदर्शितमि- त्यर्थः । तैर्ध्वनिमार्गस्य स्पर्शेऽपि लक्षणकरणेन पृथक् तत्स्वरूपस्यानिरूपणाद्गुणवृत्तिरेव ध्वनिः, न तदतिरिक्त इति तदुक्तिमर्थसिद्धामुपजीव्येदं भाक्तवादप्रस्थानं प्रवृत्तमित्याह- यथालिखितेत्यादि । तु शब्दः परन्त्वित्यर्थे । न लक्षित इत्यस्य व्याख्यानम्-


 १ भामहालङ्कार., १.९. २. स्वकृत 'भामहविवरण' इति बोध्यम् ।

 ३. वा काव्य सू., ४.३.८.

 ४. 'तैस्तावद्ध्वनिदिगुन्मीलितेत्यादिसन्दर्भस्येदमैदम्पर्यम्-गङ्गादिपदात्तीराय- र्थप्रतिपत्तये प्रवाहाद्यर्थप्रतीतिजननोपक्षीणसामर्थ्यामभिधां व्यतिरिच्य गुणवृत्तिमशी- कुर्वाण महादिभिः तत एव पदाच्छैत्यपावनत्वातिशयाद्यर्थप्रतिपत्तये तृतीयव्यापा- रोऽप्यवश्याभ्युपगन्तव्यः । एवञ्च वृत्त्यन्तरस्वीकारपारिपाट्येन ध्वनिदिगपि नूनमु- न्मीलितैवेति ।

 ५. 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्' (पा. सू., १. २. ५८) इति सूत्रेणेत्यर्थः ।