पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५५
चतुर्थोद्द्योतः


लोचनम्

श्रीसिद्धिचेलचरणाब्जपरागपूतभट्टेन्दुराजमतिसंस्कृतबुद्धिलेशः । वाक्यप्रमाणपदवेदिगुरुः प्रबन्धसेवारसो व्यरचयदध्वनि वस्तुवृत्तिम् ॥

सज्जनान् कविरसौ न याचते ह्लादनाय शशभृत्किमर्थितः ।
नैव निन्दति खलान्मुहुर्मुहुः धिक्कृतोऽपि न हि शीतलोऽनलः ॥
वस्तुतश्शिवमये हृदि स्फुटं सर्वतशिवमयं विराजते ।
नाशिवं क्वचन कस्यचिद्वचः तेन वश्शिवमयी दशा भवेत् ॥

इति महामाहेश्वराभिनवगुप्तविरचिते काव्यालोकलोचने

चतुर्थ उद्योतः

समाप्तश्चायं ग्रन्थः ॥

बालप्रिया

भट्टेन्दुराजः तस्य मत्या ज्ञानेन संस्कृतो.बुद्धिलेशो यस्य सः। वाक्येति । वाक्य मीमांसाशास्त्रं, प्रमाणं न्यायशास्त्रं, पदं व्याकरणशास्त्रं, तद्वेदिनां गुरुरित्यर्थः । प्रबन्धसेवायां रसो यस्य सः । अभिनवगुप्त इति शेषः । ध्वनिवस्तुवृत्तिं ध्वनि- ग्रन्थविवृतिम् । व्यरचयत् कृतवान् ।

 सज्जनानिति । असौ कविरित्यात्मानं निर्दिश्योक्तिः । ह्लादनाय स्वग्रन्यादर- णेन स्वप्रीणनाय सज्जनान्न याचते । कुतो न याचत इत्याशङ्कां दृष्टान्तप्रदर्शनेन परिहरति-शशभृत्किमर्थित इति । ह्रादनायेत्यनुषङ्गः । किमर्थितः जनैरर्थितः । किं नैवेत्यर्थः । चन्द्र इव सज्जनः स्वयमेव परानाह्लादयतीति चन्द्रस्येव पराह्लादनं सज्जनस्य स्वभाव इत्यर्थः । नैवेति । मुहुर्मुहुः धिक्कृतोऽपि खलैः पुनः पुनरधि. क्षिप्तोऽपि । असौ कविरित्यनुषङ्गः । खलान्नैव निन्दति कुत इत्यत आह-न ही. त्यादि । अनलः अग्निः, शीतलः अनुष्णः । न हि यथा अग्निः सर्वदा उष्णस्व. भाव एव तथा खलजनः परदूषणस्वभाव एव, स्वभावश्चापरिहार्य इत्यर्थः । ्त इत्यु- भयत्र पूर्वेण सम्बन्धः।

 अथ परममाहेश्वरो ग्रन्थकारो ग्रन्थान्ते परमशिवानुसन्धानात्मकं परममङ्गलमनु- तिष्ठन्नाह-वस्तुत इत्यादि । जनस्य हृदि हृदये वस्तुतः शिवमये सति शिवमये हृदीति वा योजना, सर्वतः सर्व वस्तु स्फुटं शिवमयं विराजते भाति । नाशिवमि. त्यादि । वचन क्वचिदपि कस्यचिद्वचः अशिवं न भवति, किंतु सर्वत्र शिवमेव भवतीत्यर्थः । अनेन वस्तुतः शिवमये स्वस्य हृदये सर्व शिवमयं भाति । अतस्स- र्वत्रापि विषये स्ववचः शिवमेवेत्यर्थः प्रदर्शितः । तेनेति । स्ववचनेनेत्यर्थः । व इति श्रोतुनुद्दिश्योक्ति शिवमयो मङ्गलमयो दशा भवेत् भवत्विति सर्वं शिवम् ।