पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

तदेव नामश्रवणं केंषाविनिवृत्तिं करोति, तन्मात्सर्यविजृम्भितं नात्र गणनीयम् , निश्रे. यसप्रयोजनादेव हि श्रुतात्कोऽपि रागान्धो यदि निवर्तते किमेतावता प्रयोजनमप्रयो- जनमप्यवश्यं वक्तव्यमेव स्यात् । तस्मादर्थिनां प्रवृत्यान्नाम प्रसिद्धम् ।

स्फुटीकृतार्थवैचित्र्यबहिःप्रसरदायिनीम् ॥
तुर्यां शक्तिमहं वन्दे प्रत्यक्षार्थनिदर्शिनीम् ॥

आनन्दवर्धन विवेकविकासिकाव्यालोकार्थतत्वघटनादनुमेयसारम् ।
यत्प्रोन्मिषत्सकलसद्विषयप्रकाशि व्यापार्यताभिनवगुप्तविलोचनं तत् ॥

बालप्रिया

तदिति । तस्मादित्यर्थः । एतदेव प्रथितमिति । उक्त्तमेव प्रकाशितमित्यर्थः । तदेव नामश्रवणमिति । यदेव नामश्रवणं बहूनां प्रवृत्तिं करोति, तदेव नामश्रवण- मित्यर्थः । करोति उत्पादयति । निःश्रेयसेति । निश्रेयसं प्रयोजनं यस्य तस्मादि. त्यर्थः । श्रुतादिति । श्रुतिप्रतिपादितात्तत्त्वज्ज्ञानादित इत्यर्थः । एतावतेति । रागा.. न्धनिवृत्तिमात्रेणेत्यर्थः । प्रयोजनमिति । वस्तुतः प्रयोजनमित्यर्थः । अप्रयोजनं प्रयोजनभिन्नम् । वक्तव्यमेव स्यात्कमिति सम्बन्धः । न वक्तव्यमिति भावः। प्रथितं नामप्रवृत्त्यजमिति सम्बन्धः ।

 प्रथमोद्योतान्ते पराया द्वितीयोद्योतान्ते पश्यन्त्यास्तृतीयोद्योतान्ते मध्यमायाश्च वन्दनं कृतवान् ग्रन्थकारः, चतुर्थोद्योतान्ते वैखर्या वन्दनमनुतिष्ठति-स्फुटीत्यादि । स्फुटीकृतानि वक्त्रा मनसि स्पष्टीकृतानि यानि अर्थवैचित्र्याणि विचित्रार्थाः तेषां यः बहिःप्रसरः श्रोतृजनेषु प्रकाशः तद्दायिनीम् । प्रत्यक्षेति। प्रत्यक्षं यथा तथा अर्थ- निदर्शिनीमर्थानिदर्शयन्तीम् ।। अप्रत्यक्षांनप्यर्थान् प्रत्यक्षानिव प्रदर्शयन्तीमिति यावत् । तुर्यी शक्तिं वैखरीरूपां शक्तिम् । अहं वन्दे इत्यर्थः ।

 मानन्देति । आनन्दवर्धनस्य यो विवेकः विविच्यतत्तदर्थावधींधः तेन विकासी प्रकाशमानो यः काव्यलोकस्तस्य यान्यर्थतत्वानि सारार्थाः तेषां घटनात्संयोजना- द्वैतोः। अनुमेयस्सार उत्कर्षों यस्य तत् , किंच यत् ब्रोन्मिषत् सहृदयेषु प्रकार शमानमथ च प्रकर्षेण उन्मिषत् सत् सकलानां सर्वेषां काव्यादीनां सद्विषयान् सारा- र्थान् सकलान् सद्विषयान् वा अथ च सकलान् सद्विषयान् विद्यमानान् पदार्थान् प्रका- शयतीति तथा भवति तत् तथाविधम् । अभिनवगुप्तस्य तन्नाम्नः, स्वस्य, अथ च अभिनवं नवीन गुप्तमन्येषामविदितं च लोचनमालोचनं ज्ञानं नेत्रं च व्यापार्यत आत्मना व्यापारितम् । णिजन्तात्कर्मणि लङ् । अत्र ज्ञाने नेत्रसाम्यं गम्यते ।

 श्रीसिद्धीति । श्रीमतः सिद्धिचेलस्य तन्नाम्नः गुरोः चरणाब्जपुराणैः पूतो यो