पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५३
चतुर्थोद्द्योतः


तद्व्याकरोत्सहृदयोदयलाभहेतो-
रानन्दवर्धन इति प्रथिताभिधानः ॥

इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके

चतुर्थ उदयोतः

समाप्तोऽयं ग्रन्थः॥


लोचनम्

तद्वधाकरोत्सहृदयोदयलाभहेतोः

 इति सम्बन्धाभिधेयप्रयोजनोपसंहारः । इह बाहुल्येन लोको लोकप्रसिध्या सम्भा. वनाप्रत्ययबलेन प्रवर्तते । स च सम्भावनाप्रत्ययो नामश्रवणवशात्प्रसिद्धान्यतदीयस. माचारकवित्वविद्वत्तादिसमनुसमरणेन भवति । तथाहि-भर्तृहरिणेदं कृतम्-यस्या- यमौदार्यमहिमा यस्यास्मिन्छास्त्रे । एवं विधस्सारो दृश्यते तस्यायं श्लोकप्रबन्धस्त. स्मादादरणीयमेतदिति लोकः प्रवर्तमानो दृश्यते । लोकश्चावश्यं प्रवर्तनीयः तच्छास्त्रो- दितप्रयोजनसम्पत्तये। तदनुग्राह्यश्रोतृजनप्रवर्तनाङ्गत्वाद्ग्रन्थकाराः स्वनामनिबन्धनं कुर्वन्ति, तदभिप्रायेणाह-आनन्दनवर्धन इति । प्रथितशब्देनैतदेव प्रथितं यत्तु

बालप्रिया

धकं युक्तिजातं चेत्यर्थः । 'व्याकरोत् विशदीकृतवान् । 'सहृदयति । सहृदयानां य उदय अभ्युदयः ध्वनिस्वरूपावबोधहेतुका प्रीतिः तल्लाभस्य हेतोः। तल्लाभरूपप्रयोज. नायेत्यर्थः । तेन ब्रूमः सहृदयमनः प्रीतये तत्स्वरूपमित्युपक्रमानुरूपोऽयमुपसं. हारः । श्लोकार्थं स्पष्टं मत्वा वक्तव्यमंशं विवृणोति लोचने-सत्काव्येत्यादि । इति- सम्बन्धाभिधेयप्रयोजनोपसंहार इति । सम्बन्धः ध्वनिस्वरूपस्यैतद्ग्रन्थस्य च प्रतिपाद्यप्रतिपादभावः । अभिधेयं ध्वनिस्वरूपं, प्रयोजनं ध्वनिस्वरूपज्ञानहेतुका प्रीतिः। तथव्द्याकरोत्सहृदयोदय लाभहेतोरित्यनेनाभिधेयप्रयोजने स्पष्टमुक्ते, सम्बन्ध- स्त्वर्थाल्लभ्यते । अथानन्देत्यादिचतुर्थपादमवतारयति-इहेत्यादि । सम्भावनाप्र. त्ययेति । बहुमानेत्यर्थः । नामेति । ग्रन्थकारनाम्नो यच्छ्रावणं तद्वशादित्यर्थः । प्रसिद्धेति । प्रसिद्धमन्यन्नाम्नोऽन्यत् । यद्वा-प्रसिद्धान्यमसाधारणमित्यर्थः । तथाविधं यत्तदीयं ग्रन्थकारसम्बन्धिसमाचारस्सदाचारः तदादि तरस्मरणेनेत्यथः। स च सम्भावना प्रत्ययो भवतीति सम्बन्धः । उक्तं सदृष्टान्तमाह-तथाहीत्यादि । भर्तृहरिणेदं कृतमित्यादिकं लोकबुद्धयाकारकथनम् । यस्य भर्तृहरेः । भयमिति ग्रन्थमुद्दिश्योक्ति । इतीति । इति बुद्धयेत्यर्थः । सम्पत्तये प्रवर्तनीय इति सम्बन्धः ।

 ७०व०