पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५२
सटीकलोचनोपेतध्वन्यालोके


'काव्याख्येऽखिलसौख्यधाम्नि विबुधोद्याने ध्वनिर्दर्शितः
सोऽयं कल्पतरूपमानमहिमा भोग्योऽस्तु भव्यात्मनाम् ॥

सत्काव्यतत्त्वनयवर्त्मचिरप्रसुप्त-
कल्पं मनस्सु परिपक्वधियां यदासीत् ।


लोचनम् ।

एतच्च सर्व पूर्वमेव वितत्योक्तमिति श्लोकार्थमात्रं व्याख्यातम् ।सुकृतिभिरिति । ये कष्टोपदेशेनापि विना तथाविधफलभाजः तैरित्यर्थः । आखिलसौख्यधाम्नीति । अखिलं दुःखक्लेशेनाप्यननुविद्धं यत्सौख्यं तस्य धाम्नि एकायतन इत्यर्थः। सर्वथा प्रियं सर्वथा च हितं दुर्लभं जगतीति भावः । विबुधोद्यानं नन्दनम् । सुकृतीनां कृत- इति । स्थित एव सन् प्रकाशितः, अप्रकाशितस्य हि कथं भोग्यत्वम् । कल्पतरुणा उपमानं यस्य तादृङ्महिमा यस्येति बहुव्रीहिगर्भो बहुव्रीहिः ।सर्वसमाहितप्राप्तिर्हि काव्ये तदेकायत्ता । एतच्चोक्तं विस्तरतः॥

साकाम्यतत्वनयवर्त्म चिरप्रमुप्त-
कल्पं मनस्सु परिपक्वधियां यदासीत् ।

बालप्रिया

तथाविधफलभाज इति । तथाविधानि' व्युत्पत्यादीनि फलानि भजन्ते तद्भजन- शीलाः तदर्हा इत्यर्थः । तैरिति । राजकुमारादिभिरित्यर्थः। खिलशब्दोऽत्र दुःखा. र्थकः । नास्ति खिलं यस्मिस्तदखिलं इति बहुव्रीहिश्चेत्याशयेन विवृणोति-दुःखे- स्यादि । भावमाह-सर्वथेत्यादि । कृतज्योतिष्ठोमेत्यादिना उद्यानपक्षे सुकृतिपदार्थो विवृतः । उद्यानस्यैव काव्यस्यापि विबुधपदार्थसम्बन्धोऽर्थाद्विवक्षित इत्याशयेनाह- विबुधाश्चेत्यादि । काव्यतत्वविदश्चेति योजना । चकारेण देवा इत्यर्थस्य समुच्चयः । दर्शित इति भोग्यत्वोपपादकमिति दर्शयन्नाह-अप्रकाशितस्येत्यादि । उपमानपद स्योपमित्यर्थकत्वाभिप्रायेण विग्रहमाह-कल्पतरणेत्यादि । उपमानपदस्योपमितिक रणाथकत्वे तु कल्पतरुपमानमिति विग्रहः । बहुव्रीहिरिति । अत्र कल्पतरूसा- म्यस्य महिम्नि शब्देन बोधनेऽपि महिमाश्रये ध्वनौ तस्य पर्यवसानं बोध्यम्। काव्यं नन्दनोद्यानेन तुल्यं ध्वनिः कल्पतरुतुल्यश्चेति भावः। अत एव ध्वनेः कल्प तरुसाम्यप्रयोजकं दर्शयन्नाह-सर्वेत्यादि । समीहितं प्रीत्यादि । तदेकायत्ता ध्वन्येकप्रयुक्ता।

 'सत्काव्ये ति। सत्काव्यत्वस्य ध्वनिस्वरूपस्य 'नयवर्त्म न्याय्यमार्ग: साध. कं युक्तिजातमित्यर्थः । 'चिरेति । चिरकालादारभ्य प्रसुप्ततुल्यं स्पृष्टमप्रकाशमित्यर्थः। 'परिपक्वधियां' परिणतप्रज्ञाना पूर्वेषां ग्रन्थ कृताम् । 'तदिति । ध्वनिस्वरूपं तत्सा