पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५१
चतुर्थोद्द्योतः


 परस्वादानेच्छाविरतमनसः सुकवेः सरस्वत्येषा भगवती यथेष्टं घटयति वस्तु । येषां सुकवीनां प्राक्तनपुण्याभ्यासपरिपाकवशेन प्रवृत्तिस्ते- षां परोपरचितार्थपरिग्रहनिःस्पृहाणां स्वव्यापारो न क्वचिदुपयुज्यते । सैव भगवती सरस्वती स्वयमभिमतमर्थमाविर्भावयति । एतदेव हि महाक- वित्वं महाकवीनामित्योम |

इत्यक्लिष्टरसाश्रयोचितगुणालङ्कारशोभामृतो
यस्माद्वस्तु समीहितं सुकृतिभिः सर्व समासाद्यते ।


लोचनम्

वस्तु सुकवेरिति तृतीयः पादः । कुतः खल्वपूर्वमानयामीत्याशयेन निरु. द्योगः परोपनिबद्धवस्तूपजीवको वा स्यादित्याशङ्कयाह-सरस्वत्येवेति । कारिकायां सुकवेरिति जातावेकवचनमित्यभिप्रायेण व्याचष्टे-सुकविनामिति । एतदेव स्पष्टयति-प्राक्तनेत्यादि न तेषामित्यन्तेन । आविर्भावयतीति । नूतनमेव सृजतीत्यर्थः ॥ १७ ॥

 इतीति । कारिकातद्वृत्तिनिरूपणप्रकारेणेत्यर्थः। अक्लिष्टा रसाश्रयेण उचिता ये गुणालङ्कारास्ततो या शोभा तां बिभर्ति काव्यम् । उद्यानमप्यक्लिष्टः कालो- चितो यो रसः सेकादिकृतः तदाश्रयस्तरकृतो यो गुणानां सौकुमार्यच्छायावत्वसौग- मध्यप्रभृतीनमलङ्कारः पर्याप्तताकारणं तेन च या शोभा तां बिभर्ति । यस्मादिति काव्याख्यादुद्यानात् । सर्वं समीहितमिति । व्युत्पत्तिकीर्तिप्रीतिलक्षणमित्यर्थः ।

बालप्रिया

त्यादिभावयित्वेत्यन्तस्य वृत्तिग्रन्थस्य पाठः । तस्य परस्वादानेच्छाविरतमनस इत्यत्र विरतेत्यनेन सम्धश्चेति भावः । अवतारयति-कुत इत्यादि । आशयेन चिन्तया । निरुद्योगः काव्यविषयकोद्योगरहितः। स्यादिति । कुतो न स्यात् , स्यादेवेत्यर्थः ॥ १७॥

 इत्यक्लिष्टेत्यादिश्लोकस्थस्येतिपदस्य विवरणम्-कारिकेत्यादि । कारिका च तद्वृत्तिश्च ताभ्यां यन्निरूपणं तत्प्रकारेणेत्यर्थः। अस्य ध्वनिर्दर्शित इत्यनेन सम्ब- न्धः । अक्लिष्टेति शोभायाः रसाश्रयोचितेति गुणालङ्कारयोश्च विशेषणमिति दर्श- यन् व्याचष्टे-क्लिष्टत्यादि । तत इति । गुणालङ्कारहेतुकेत्यर्थः । तत्कृत इति । तत्प्रयुक्त इत्यर्थः । कालोचितजलसेकेन हि पल्लवपत्रपुष्पादिसमृद्धपा लतावृ- क्षादिसमुदायकपल्लवोद्यानस्य सौकुमार्यादिगुणसम्पत्तिर्भवति । अलंशब्दोऽत्र पर्याप्त- तावाचीत्याशयेन विवृणोति-पर्याप्तताकरणमिति । परिपूर्णताप्रापणमित्यर्थः ।