पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५०
सटीकलोचनोपेतध्वन्यालोके


 तदनुगतमपि पूर्वच्छायया वस्तु तादृक् तादृशं सुकविर्विवक्षितव्य. ङ्गयवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन्निन्धतां नैव याति ।

तदित्थं स्थितम्-

प्रतायन्तां वाचो निमितविविधार्थामृतरसा
न सादः कर्तव्यः कविभिरनवद्ये स्वविषये ।

 सन्ति नवाः कव्याः परोपनिबद्धार्थविरचने न कश्चित्कवेर्गुण इति भावयित्वा

परस्वादानेच्छाविरतमनसो वस्तु मुकवेः
सरस्वत्यैवैषा घटयति यथेष्टं भगवती ॥ १७ ॥


लोचनम्

अनुगतमपि पूर्वच्छायया वस्तु ताद-
क्सुकविरुपनिबध्नन्निन्द्यतां नोपयति ॥

 इति कारिका खण्डीकृत्य पठिता ॥ १६ ॥

 स्वविषय इति । स्वयन्तात्कालिकत्वेनास्फुरित इत्यर्थः। परस्वादानेच्छेत्या दिद्वितीयं श्लोकार्धं पूर्वोपस्कारेण सह पठति-परस्वादानेच्छाविरतमनसेौ

बालप्रिया

न्वयः । तत्र लोकस्येत्यादेविवरणं वृत्तौ 'स्फुरणेयमित्यादि । तदेतद्दर्शयन्नाह लोचने- लोकस्येत्यादि । खण्डीकृत्य पठितेति । 'यदपीत्यादिकारिकापूर्वार्धपाठानन्तरं 'स्फुरणेय मित्यादिवृत्तिग्रन्थपाठः, स्तदनन्तरं 'अनुगतमपीत्याद्युत्तरार्धपाठः, तदन न्तरं 'गतमित्यादिवृत्तिग्रन्थपाठश्चेति भावः ॥ १६ ॥

 प्रतायन्तामिति । निमिताः तुलिताः विविधार्थामृतरसाः अमृतरसतुल्याः विवि- धार्थाः.याभिः ताः, यावन्तोऽस्तावत्य इति भावः । यथा माघे 'यावदर्थपदा वाचः मिति । वाचः काव्यरूपाः । कविभिः 'प्रतायन्तां' सविस्तराः निबध्यन्ताम् । 'अन- वद्ये निर्दोषे । 'स्वविषये काव्यवस्तुनि विषये कविभिः 'सादः मनस्सादः, कुतः खल्वपूर्वमानयामीत्यादिचिन्तया विषाद इति यावत् ; न कर्तव्यः, कुत इत्यत्राह- 'परत्वेत्यादि । 'वस्तु' काव्यम् । सुकवेर्घटय तीति सम्बन्धः । 'यथेष्टं कवेरिष्टमन तिक्रम्य इति कारिकार्थं स्पष्टं मत्वा स्वविषय इत्यत्र पूरयति लोचने-स्वयं ता. त्कालिकत्वेनास्फुरित इति । तत्काले कवेरस्फुरित इत्यर्थः । अनेन सादस्य हेतुर्दर्शितः। पूर्वोपस्कारेण सह पठतीति । कारिकापूर्वार्धपाठानन्तरं सन्ती