पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४९
चतुर्थोद्द्योतः


शक्यन्ते । तानि तु तान्येवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि । तस्मात्-

यदपि तदपि रम्यं यत्र कोकस्य किञ्चित्-
स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते ।

 स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते ।

अनुगतमपि पूर्वच्छायया वस्तु तादृ-
क्सुकविरुपनिबध्नन्निन्द्यतां नोपयाति ॥१६॥


लोचनम्

वा चतुरादयो वा पदानामर्थाः । तानि त्विति । अक्षराणि च पदानि च । तान्ये- वेति। तेनैव रूपेण युक्तानि मनागप्यन्यरूपतामनागतानीत्यर्थः। एवमक्षरादिरचनैवेति दृष्टान्तभागं व्याख्याय दार्ष्टान्तिके योजयति-तथवेति । श्लेषादिमयानीति । श्लेषादिस्वभावानीत्यर्थः । सवृत्ततेजस्विगुणद्विजादयो हि शब्दाः पूर्वपूर्वैरपि कविस- हस्त्रैः श्लेषच्छायया निबध्यन्ते, निबद्धाश्चन्द्रादयश्चोपमानत्वेन । तथैव पदार्थरूपाणी- त्यत्र नापूर्वाणि घटयितुं शक्यन्ते इत्यादि विरुध्यन्तीत्येवमन्तं प्राक्तनं वाक्यम- भिसन्धानीयम् ॥ १५॥

 'लोकस्येति व्याचष्टे-सहृदयानामिति । चमत्कृतिरिति । आस्वादप्रधाना बुध्धिरित्यर्थः । 'अभ्युज्जीहीत' इति व्याचष्टे-उत्पद्यत इति । उदेतीत्यर्थः । बुद्धरेवाकारं दर्शयति-स्फुरणेयं काचिदिति ।

यदपि तदपि रम्यं यत्र लोकस्य किञ्चि-
त्स्फुरितमिदमितीयं बुद्धिरम्युज्जिहीते ।

बालप्रिया

अर्था इति । विवक्षिता इति शेषः। तानि त्वित्यादिकं विवृणोति-अक्षराणी- त्यादि । तान्येवोपनिरूद्धानीत्यस्य विवरणम्-तेनैवेत्यादि । व्याख्यायेति । न हीत्यादिना विरुध्यन्तीत्यन्तेनेति, शेषः। सवृत्तेत्यादि । सद्वृत्तादयो हि शब्दा नानार्थकाः । निबद्धा इत्यादि । पूर्वैरूपमानत्वेन निबद्धाश्चन्द्रादयश्चाद्यतनैरुपमान- त्वेन निबध्यन्त इत्यर्थः । अभिसन्धानीयमिति । अनुषजनीयमित्यर्थः ।

 कारिकायां यत्रैत्युक्त्या तत्रेत्यध्याह्रत्य काव्यवस्तुनीत्यनेन योज्यम् । यत्रेत्यस्य स्थाने वा त्विति वा पाठः । कारिकायां 'यदपीत्यादि । 'यदपि तदपि यत्किञ्चित्त- द्वस्त्वपि । रम्य काव्ये चारू भवति । तत्पदार्थं विवृणोति-'यत्रेत्यादि । यत्र निषद्धे यस्मिन् वस्तुनि । इदं किञ्चित् स्फुरितमितीयं बुद्धिः लोकस्य उज्जिहीते इत्य-