एतदेवोपपादयितुमुच्यते-
आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि । |
तत्त्वस्य सारभूतस्यात्मनः सद्धावेऽन्यस्य पूर्वस्थित्यनुयाय्यपि वस्तु भातितराम् । पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां शोभां पुष्यति । न तु पुनरुक्तत्वेनावभासते । तन्व्याः शशिच्छायमिवाननम् ।
एवं तावत्ससंवादानां समुदायरूपाणां वाक्यार्थानां विभक्ताः सी. मानः । पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव दोष इति प्रतिपादयितुमुच्यते-
अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी । |
न हि वाचस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घटयितुं
लोचनम्
एतदेवेति तृतीयस्य रूपस्यात्याज्यत्वम् ।
आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि । |
इति कारिका खण्डीकृत्य. वृत्तौ पठिता। केषुचित्पुस्तके कारिका अखण्डीकृता एव दृश्यन्ते । आत्मन इत्यस्य शब्दस्य पूर्वपठिताभ्यामेव तत्वस्य सारभूतस्येति च पदाभ्यामर्थों निरूपितः ॥ १४ ॥
ससंवादानामिति पाठः । संवादानामिति तु पाठे वाक्यार्थरूपाणां समुदायानां ये संवादाः तेषामिति वैयधिकरण्येन संगतिः। वस्तुशब्देन एको वा द्वौ वा त्रयो
बालप्रिया
एतदेवेत्यत्रत्यैतत्पदार्थविवरणम्-तृतीयस्येत्यादि ।आत्मन इत्यस्यार्थों निरूपित इति सम्बन्धः तत्त्वस्य सारभूतस्येति चात्मपदार्थविवरणमिति भावः । वृत्तौ 'पूर्वस्थिती' त्यायुक्तस्यैव विवरणं 'पुराणे'त्यादि 'पुष्यती त्यन्तम् । 'पुरा- णेति । पुराणी रमणीया च या छाया तयाऽनुगृहीतमित्यर्थः। शरीरवत् शरीरेण तुल्यम् ॥ १४॥
कारिकायां वस्तुरचनेत्यत्र वस्तुपदं विवृणोति लोचने-वस्तुशब्देनेत्यादि ।