पुनरिदानीं परिक्षीणा परपदार्थनिर्माणशक्तिरिति न शक्यतेऽभिधातुम् ।।
तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानीं परिही-
यते, प्रत्युत नवनवाभिर्व्युत्पत्तिभिः परिवर्धते । इत्थं स्थितेऽपि-
संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् । |
कथमिति चेत्--
संवादो धन्यसादृश्यं तत्पुनः प्रतिविम्बवत् । |
संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना सादृश्यम् । तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च त्रिधा व्यवस्थि- तम् । किञ्चिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः प्रतिबिम्बकल्पम्,
लोचनम्
संवादा इति कारिकाया अर्ध, नैकरूपतयेति द्वितीयम् ॥ ११ ॥ किमियं राजाशेत्यभिप्रायेणाशङ्कते-कथमिति चेदिति । अत्रोत्तरम्-
संवादा ह्यन्यसादृश्यन्तत्पुनः प्रतिबिम्बवत् । |
शरीरिणामित्ययश्चशब्दःइत्यनया कारिकया। एषा खण्डीकृत्य वृत्तौ व्याख्याता । प्रतिवाक्यं दृष्टव्य इति दर्शितम् । शरीरिण इति । पूर्वमेव प्रतिलब्धस्वरूपतया
बालप्रिया
लोचने-संवादा इत्यादि । 'संवादा' इत्यादि सुमेधसामित्यन्तं कारिकायाः प्रथ. मार्ध, 'नैके'त्यदि 'विपश्चिते' त्यन्त द्वितीयार्धं चेत्यर्थः। अत्र सुमेधसां संवादा इत्यस्य सुमेधसां बुद्धीनां काव्यानां च संवादा इत्यर्थ इत्यभिप्रेत्य 'स्थितं ह्येतदित्यादिकं 'संवादो हि काव्यार्थस्योच्यत' इति च वृत्तायुक्तमिति बोध्यम् ॥ ११ ॥
खण्डीकृत्य वृत्तौ व्याख्यातेति ।केषुचित्पुस्तकेष्विति शेषः । अतएव वक्ष्यते-केषुचित पुस्तकेषु कारिका अखण्डीकृता एव दृश्यन्त : इति । खण्डी कृत्यव्याख्यानं तु 'संवादो ह्यन्यसादृश्यम्' 'संवादो हि काव्यार्थस्योच्यते, यदन्येन काव्यवस्तुना सादृश्यम्, तत् पुनः प्रतिबिम्बवत् , तत्पुनश्शरीरिणां प्रतिबिम्बवत' इत्यादिकं बोध्यम् । प्रतिवाक्यमित्यादि । शरीरिणामित्यत्य प्रतिबिम्बादिभिस्त्रिभि-