पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४५
चतुर्थोद्द्योतः


भून्नैव दृश्यते लक्ष्पे

न तच्छक्यमपोहितुम् ।

                    तत्तु भाति रसाश्रया ॥८॥

तदिदमत्र सङ्क्षेपेणाभिधीयते सत्कवीनामुपदेशाय--

रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी ।
अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥९॥

तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् ।

वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः ।
निबद्धा सा क्षयं नैति प्रकृतिर्जगतामिव ॥ १० ॥

यथाहि जगत्प्रकृतिरतीतकरुपपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती


लोचनम्

भूम्नैव दृश्यते लक्ष्ये तत्तु भाति रसाश्रयात् ॥

 इति कारिका। अन्यस्तु ग्रन्थो मध्योपस्कारः ॥

 अत्र तु पादत्रयस्यार्थमनूद्य चतुर्थपादार्थोऽपूर्वतयाभिधीयते। तदित्यादि शक्तीनामित्यन्तं कारिकयोमध्योपस्कारः। द्वितीयकारिकायास्तुर्यं पादं व्याचष्टे- यथाहीति ॥ ९, १०॥

बालप्रिया

त्यादि । अन्यस्तु ग्रन्थः इति । 'यत्प्रदर्शितं प्रागिति 'न तच्छक्यमपोहितुमिति च ग्रन्थ इत्यर्थः ॥ ८॥

 चतुर्थेयादि । 'तत्तु भाति रसाश्रयादित्यस्यार्थोऽत्र विधीयमान इत्यर्थः । करिकयोरिति । रसभावेपत्यादेः 'वाचस्पतीत्यादेश्व कारिकयोरित्यर्थः । उपस्कार इति । यद्यन्वीयते अन्यः कविभिः तत्तर्हि इत्यर्थः । अन्येषां वाल्मीकिव्यतिरिक्ता- नाम् । कवीनां गणना का। ते अगण्या भवेयुरिति तदर्थः । तुर्यं पादमिति । प्रकृतिर्जगतामिवेति पादमित्यर्थः । व्याचष्ट इति । क्षयं नैतीत्यनेन सह विवृणोतीत्य- र्थः। यथाहीतीति । 'यथाही त्यादिना 'अभिधातुमित्यन्तग्रन्थेनेत्यर्थः । तद्वदित्या- दिकं तु वाचस्पतीत्यादिपादत्रयार्थविवरणम् । वृत्तौ 'जगत्प्रकृतिरिति । जगत्कारणभूता प्रकृतिरित्यर्थः । 'अतीतेति । अतीतानां कल्पानां परम्परायामाविर्भूतः आविर्भावितः विचित्राणां वस्तूनां प्रपञ्चो यया सा 'परीति । परिक्षीणा नष्टा अपरपदार्थानां निर्माण. शक्तिर्यस्यास्सेत्यर्थः ॥ ९, १०॥

 ६९ ध्वन