पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४४
सटीकलोचनोपेतध्वन्यालोके


रलङ्कारवर्गः प्रसिद्धः स भणितिवैचिच्यादुपनिबध्यमानः स्वयमेवानव- घिर्धते पुनः शतशाखताम् । भणितिश्च स्वभाषाभेदेन व्यवस्थिता सती प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामानन्त्यमा- पादयति । यथा ममैव-

महमह इत्ति भणन्तउ वज्जदि कालो जणस्स ।
तोइ ण देउ जणद्दण गोअरी भोदि मणसो ॥

 इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यतेऽन्तः काव्यार्था- नाम् । इदं तूच्यते--

 अवस्थादिविभिन्नानां वाच्यानां विनिवन्धनम् ।... यत्प्रदर्शितं प्राक्


लोचनम्

शब्दः, तदनुकारतया तु प्रतिमशब्द इत्येव सर्वत्र वाच्यं केवलं बालोपयोगि काव्यः टीकापरिशीलनदौरात्म्यादेषु पर्यायत्वभ्रम इति भावः । एवमर्थानन्त्यमलङ्कारानन्त्यश्च भणितिवैचित्र्याद्भवति । अन्यथापि च तत्ततो भवतीति दर्शयति-भणितिश्चेति । प्रतिनियताया भाषाया गोचरो वाच्यो योऽर्थस्तत्कृतं यद्वैचित्र्यं तन्निबन्धनं निमित्त यस्य, अलङ्काराणां काव्यार्थानाच्चानन्त्यस्यन तत्कर्मभूतं भणितिवैचित्र्यं कर्तृभूतमापा. दयतीति सम्बन्धः । कर्मणो विशेषणच्छलेन हेतुर्दशितः ।

मम मम इति भणतो व्रजति कालो जनस्य ।
तथापि न देवो जनार्दनो गोचरो भवति मनसः॥

 मधुमथन इति यो अनवरतं भणति, तस्य कथन्न देवो मनोगोचरो भवतीति विरोधालङ्कारच्छाया । सैन्धवभाषयां महमह इत्यनया भणित्या समुन्मेषिता ॥७॥

अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम्।

बालप्रिया

अर्थाद्यानन्त्यमित्यर्थः । तत इति । भणितिवैचित्र्यादित्यर्थः । यस्येत्यन्यपदार्थविवर- रणम्-अलङ्काराणामित्यादि । विशेषणच्छलेनेति । प्रतिनियतेत्यादिविशेषण- व्याजेनेत्यर्थः।

 'महत्यादेः छायामाह-ममेत्यादि । मम मम इति भणतः ममायं ममेदमि- त्यादि भणतः। अत्र ममेति प्रकृतार्थः । मधुमथन इति प्रतीयमानो विरुद्धार्थः । तथापीति विरोधद्योतकम् । समुन्मिषितेति । महमह इत्यस्य मम मम इति मधुमथन इति च छाया भवतीति भावः ॥ ७॥

 इत ऊर्ध्वकारिकावृत्योर्भेदस्य दुर्ग्रहतया तदुभयं पृथक्प्रदर्शयन् विवृणोति-अवस्थ्-