पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४३
चतुर्थोद्द्योतः


भावेन प्रवृत्तेः । वाच्यानां च काव्ये प्रतिभासमानानां यद्रूपं तत्तु ग्राह्य- विशेषाभेदेनैव प्रतीयते । तेनोक्तिवैचित्र्यवादिना वाच्यवैचित्र्यमनिच्छ- ताप्यवश्यमेवाभ्युपगन्तव्यम् । तदयमत्र सङ्क्षेपः-

वाल्मीकिव्यतिरिक्तस्य यद्येकस्यापि कस्यचित् ।
इष्यते प्रतिभार्थेषु तत्तदानन्त्यमक्षयम् ।।

 किञ्च, उक्तिवैचित्र्यं यत्काव्यनवत्वे निबन्धनमुच्यते तदस्मत्पक्षा- नुगुणमेव । यतो यावानयं काव्यार्थानन्त्यभेदहेतुः प्रकारः प्राग्दर्शितः स सर्व एव पुनरुक्तिवैचिच्याद्विगुणतामापद्यते । यश्चायमुपमाश्लेषादि.


लोचनम्

मानो न भवति । तस्माद्विशिष्टवाच्यप्रतिपादकनैवोक्तेर्विशेष इति भावः । ग्राह्यवि. शेषेति । प्रायः प्रत्यक्षादिप्रमाणैर्यो विशेषः तस्य यो अभेदः।

 तेनायमर्थः-पदानान्तावत्सामान्ये वा तद्वति वाऽपोहे वा यत्र कुत्रापि वस्तुनि समयः, किमनेन वादान्तरेण? वाक्यात्तद्विशेषः प्रतीयत इति कस्यात्र वादिनो विमतिः। अन्विताभिधानतद्विपर्ययसंसर्गभेदादिवाक्यार्थपक्षेषु सर्वत्र विशेषस्याप्रत्याख्येयत्वात् । उक्तिवैचित्र्यच्च न पर्यायमात्रकृतमित्युक्तम् । अन्यत्तु यत्तत्प्रत्युतास्माकं पक्षसाध. कमित्याह-किञ्चेति । पुनरिति । भूय इत्यर्थः । उपमा हि निभ, प्रतिम, च्छल, प्रतिविम्ब, प्रतिच्छाय, तुल्य, सदृशाभासादिभिर्विचित्राभिरुक्तिभिर्विचित्रीभवत्येव । वस्तुत एतासामुक्तीनामर्थवैचित्र्यस्य विद्यमानत्वात् । नियमेन भानयोगाद्धि निभ-

बालप्रिया

किन्तु पौनरुक्त्यबुद्धिरेव भवतीत्यथः । विशिष्टवाच्येति । वाच्यविशेषेत्यर्थः । प्रत्यक्षादिप्रमाणैः ग्राह्य इति सम्बन्धः।

 तेनायमर्थ इति । उक्तग्रन्थेन वक्ष्यमाणोऽर्थस्सिध्यतीत्यर्थः। मीमांसकादीनां मते सामान्ये वस्तुनि, नैयायिकमते तद्वति, बौद्धमते अपोहे समयः। वादान्तरेण वादविशेषेण । तद्विशेषः वस्तुविशेषः। कस्यात्र विमतिः न कस्यापि। अत्र हेतु. माह-अन्वितेत्यादि । अन्विताभिधानादीनां ये वाक्यार्थत्वपक्षास्तेषु सर्वेष्वपी- त्यर्थः । विशेषस्यापत्याख्येयत्वादिति । प्रतीताविति शेषः । वस्तुविशेष- प्रतीतेः प्रत्याख्यातुमशक्यत्वादित्यर्थः । पुनरुक्तिवैचित्र्यादित्यत्रत्यपुनश्शब्दस्य व्याख्यानम्-भूय इति । 'यश्चायमित्यादिग्रन्थस्य भावार्थविवरणम्-उपमेत्यादि । उपमा हि विचित्रीभवत्येवेति सम्बन्धः । ननु निभप्रतिमादिशब्दानां समानार्थकत्वात् कथं त वैचित्र्यसित्यत आह-वस्तुत इत्यादि । उपसंहरति-एवमिति । तदिति ।