पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४२
सटीकलोचनोपेतध्वन्यालोके


अतएव स प्रकारविशेषो यैरद्यतनैरभिनवत्वेन प्रतीयते तेषामभिमान मात्रमेव भणितिकृतं वैचित्र्यमात्रमत्रास्तीति ।

 तत्रोच्यते-यत्तूक्तं सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तस्य च परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यवस्तूनामिति, तद- युक्तम् ; यतो यदि सामान्यमात्रमाश्रित्य काव्यं प्रवर्तते किङ्कृतस्तर्हि महाकविनिबध्यमानानां काव्यर्थानामतिशयः । वाल्मीकिव्यतिरिक्तस्या- न्यस्य कविव्यपदेश एव वा सामान्यव्यतिरिक्तस्यान्यस्य काव्यार्थस्या. भावात् , सामान्यस्य चादिकविनैव प्रदर्शितत्वात् । उक्तिवैचित्र्यान्नैष दोष इति चेत्-किमिदमुक्तिवैचित्र्यम् ? उक्तिर्हि वाच्यविशेषप्रतिपादि वचनम् । तद्वैचित्र्ये कथं न वाच्यवैचित्र्यम् । वाच्यवाचकयोरविना.


लोचनम्

प्रत्यक्षदर्शनेऽपि हि-

शब्दास्संकेतितं प्राहुर्व्यवहाराय स स्मृतः ।
तदा स्वलक्षणं नास्ति सङ्केतस्तेन तत्र नः ॥

 इत्यादियुक्तिभिस्सामान्यमेव स्पृश्यते । किमिति । असंवेद्यमानमर्थपौनरूक्यं कथं प्राकरणिकैरङ्गीकार्यमिति भावः । तमेव प्रकटयति-न चेदिति । उक्तिर्हीति । पर्यायमात्रतैव यद्यक्तिविशेषस्तत्पर्यायान्तरैरविकलं तदर्थोपनिबन्धे अपौनरुक्त्याभि-

बालप्रिया

प्रत्यक्षेत्यादि । प्रत्यक्षदर्शनेऽपीतिः । कवीनां वस्तुस्वरूपप्रत्यक्षदर्शने सत्यपी- त्यर्थः । स्पृश्यत इति । कविवाचेति शेषः । वृत्तौ-'अनुभाव्येति । अनुभाव्यानाम- नुभवितव्यानां वस्तूनामनुभवानां च यत् सामान्यं सामान्यस्वरूपमित्यर्थः । 'तस्ये'- ति । अनुभाव्यानुभावसामान्यस्येत्यर्थः । 'अविषयत्वेति ।पुरातनानामित्यनुषाः । 'तेषामिति । अद्यतनानामित्यर्थः । इत्यभिमानमात्रमेवेति सन्बन्धः । तत्रोच्यत' इत्यस्यानन्तरं 'यत्तूक्तं सामान्यमात्राश्रयेण काव्यप्रवृत्तिरित्यादि पाठः । क्वचिद्ग्रन्थे स्वस्मात् पूर्व 'यदि सामान्यमात्राश्रयेण काम्यप्रवृत्तिस्तत्प्रर्शितप्रकार काव्यवैचित्र्यमव: स्थादिविशेषात्किं पुनरुक्तमेवास्तु न चेत्तथा तत्कथं न काव्यानन्त्यमित्यपि पाठः । तदनुरोधी किमितीत्यादि न चेदितीत्यन्तो लोचनग्रन्थः । 'उक्रिह्रीत्यादिग्र- न्थस्य भाव विवृणोति-पर्यायेत्यादि । पर्यायमात्रतैव शब्दान्तरेण निर्देश एव । तत् तर्हि । अविकलं वैकल्यं विना । अपौनरुक्त्याभिमानो न भवतीति ।