पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४१
चतुर्थोद्द्योतः


 देशभेदान्नानात्वमचेतनानां तावत् । यथा वायूनां नानादिग्देश- चारिणामन्येषामपि सलिल कुसुमादीनां प्रसिद्धमेव । चेतनानामपि मानुष- पशुपक्षिप्रभृतीनां ग्रामारण्यसलिलादिसमेधितानां परस्परं महाविशेषः समुपलक्ष्यत एव । स च विविच्य यथायथमुपनिबध्यमानस्तथैवानन्त्य- मायाति । तथा हि-मानुषाणामेव तावद्दिग्देशादिभिन्नानां ये व्यवहार. व्यापारादिषु विचित्रा विशेषास्तेषां केनान्तः शक्यते गन्तुम् , विशेषतो योषिताम् । उपनिबध्यते च तत्सर्वमेव सुकविभिर्यथाप्रतिभम् ।

 कालभेदाच्च नानात्वम् । यथर्र्तुभेदाद्दिग्व्योमसलिलादीनामचेतनानाम् । चेतनानां चौत्सुक्यादयः कालविशेषाश्रयिणः प्रसिद्धा एव । स्वालक्षण्य- प्रभेदाच्च सकलजगद्गतानां वस्तूना विनिबन्धनं प्रसिद्धमेव । तच्च यथा- वस्थितमपि तावदुपनिवध्यमानमनन्ततामेव काव्यार्थस्यापादयति ।

 अत्र केचिदाचक्षीरन्-यथा सामान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना ; तानि हि स्वयमनुभूतानां सुखादीनां तन्नि- मित्तानां च स्वरूपमन्यत्रारोपयद्भिः स्वपरानुभूतरूपसामान्यमात्राश्रयेणोप- निबध्यन्ते कविभिः। न हि तैरतीतमनागतं वर्तमानञ्च परिचितादिस्व लक्षणं योगिभिरिव प्रत्यक्षीक्रियते । तच्चानुभाव्यानुभवसामान्यं सर्वप्रतिपत्तृसाधा- रणं परिमितत्वात्पुरातनानामेव गोचरीभूतम् , तस्या विषयत्वानुपपत्तेः ।


लोचनम्

 तावदिति उत्तरकालन्तु व्यंग्यस्पर्शनेन विचित्रतां परां भक्तान्नाम, तावति तु स्वभावेनैव सा विचित्रेति तावच्छन्दस्याभिप्रायः। तन्निमित्तानाञ्चेति । ऋतु- माल्यादीनाम् । स्वेति । स्वानुभूतपरानुभूतानां यत्सामान्यं तदेव विशेषान्तररहि. तन्तन्मात्रं तस्याश्रयेण । न हि तैरिति कविभिः । एतच्चात्यन्तासंभावनार्थमुक्तम् ।

बालप्रिया

उत्तरकालन्त्वित्यादि । स्वपरानुभूतेत्येतत् व्याचष्टे-स्वानुभूतेत्यादि । मात्रश- ब्दार्थविवरणम्-विशेषान्तररहितमिति । वृत्तौ 'अपरिचितादिस्वलक्षणमिति । अपरिचितादीनां वस्तूनां स्वरूपमित्यर्थः। एतच्चोक्तमिति सम्बन्धः । न हीत्यादि कथनं चेत्यर्थः । 'अत्यन्तासम्भावनार्थमिति । अत्यन्तं यदसम्भावनं वस्तूनां विशे- षात्मना प्रतिपादनसम्भवाभावस्तदर्थं तत्प्रतिपत्त्यर्थमित्यर्थः । एतदेव विशदयति-