पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४०
सटीकलोचनोपेतध्वन्यालोके


च प्रस्थानं कविव्युत्पत्ये विषमवाणलीलायां सप्रपञ्चं दर्शितम् । चेत.. नानां च बाल्याद्यवस्थाभिरन्यत्वं सत्कवीनां प्रसिद्धमेव । चेतनानामव. स्थाभेदेऽप्यवान्तरावस्थाभेदान्नानात्वम् । यथा कुमारीणां कुसुमशर- भिन्नहृदयानामन्यासां च । तत्रापि विनीतानामविनीतानां च । अचेत नानां च भाषानामारम्भाद्यवस्थाभेदभिन्नानामेकैकशः स्वरूपमुपनिबध्य. मानमानन्त्यमेवोपयाति । यथा--

हंसानां निनदेषु यैः कवलितैरासज्यते कूजता-
मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः ।

ते सम्प्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो
निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ।।

 एवमन्यत्रापि दिशानयानुसर्तव्यम् ।


लोचनम्

क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयताया इति ।

 प्रियाणामिति चासंसारं प्रबहद्र्पो योऽयं कान्तानां विभ्रमविशेषः स नवनव एव दृश्यते । न ह्यसावग्निचयनादिवदन्यतश्शिक्षितः, येन तत्सादृश्यात्पुनरुक्ततां गच्छेत् । अपि तु निसर्गोंद्भियमानमदनाङ्कुरविकासमात्रन्तदिति नवनवत्वम् । तद्व- त्परकीयशिक्षानपेक्षनिजप्रतिभागुणनिष्यन्दभूतः काव्यार्थ इति भावः ।

बालप्रिया


 प्रियाणां विभ्रमा इत्यनेन गम्यमर्थमाह-प्रियाणामिति चेत्यादि । न ही- त्यादि । असो विभ्रमविशेषः। यथा अग्निचयनमन्यतश्शिक्ष्यते तथा शिक्षितो नेत्यर्थः । येनेति । अन्यतश्शिक्षितत्वेनेत्यर्थः । तदिति । विभ्रमविशेष इत्यर्थः । नवनवत्वमिति । तस्येति शेषः । अर्था वा सुकविवाणीनामिति प्रकृतं विवृणोति- तादित्यादि । तद्वदिति । तेन तुल्यो भवति नवनवो भवतीत्यर्थः । वृत्तौ चेतन- तत्स्वरूपापेक्षयेति । हिमवतो वर्णनमित्यनुषज्यते । 'प्रदर्शित तदिति । वर्णितंतदित्यर्थः । 'अवस्थाऽभेदेऽपीति । कौमारादिशरीरावस्थाया भेदाभावेऽपीत्यर्थः । 'आन्तरेति । मानसिकेत्यर्थः । 'हंसानामिति । कवलितः भक्षितः। यैः कूजतां हंसानां निनदेषु कषायकण्ठलुण्ठनादाघर्घरः अन्यः कोऽपि विभ्रमः आसज्यते आसक्तः क्रियत इत्यायन्ययः।

 तच्च यथाऽवस्थितमपि तावदुपनिबध्यमानमित्यत्र तावत्पदं लोचने विवृणोति-