पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३९
चतुर्थोद्द्योतः


रवधिः काव्यार्थः सम्पद्यते । तथा ह्यवस्थाभेदान्नवत्वं यथा-भगवती पार्वती कुमारसम्भवे 'सर्वोपमाद्रव्यसमुच्चयेन' इत्यादिभिरुक्तिभिः प्रथ- ममेव परिसमापितरूपवर्णनापि पुनर्भगवतः शम्भोर्लोचनगोचरमायान्ती 'बसन्तपुष्पाभरणं वहन्ती' मन्मथोपकरणभूतेन भङ्गयन्तरेणोपवर्णिता । सैव च पुनर्नवोद्वाहसमये प्रसाध्यमाना 'तां प्राङ्मुखीं तत्र निवेश्य तन्वीम्' इत्याधुक्तिभिर्नवेनैव प्रकारेण निरूपितरूपसौष्ठवा । न च ते तस्य कवरेकत्रैवासकृत्कृता वर्णनप्रकारा अपुनरुक्तत्वेन वा नवनवार्थनिर्भरत्वेन वा प्रतिभासन्ते । दर्शितमेव चैतद्विषमबाणलीलायाम् -

ण अताण षडइ ओही ण अ ते दीसन्ति कह वि पुनरुत्ता ।
जे विन्भमा पिआणं अत्था वा सुकइवाणीणम् ॥

 अयमपरश्चावस्थाभेदप्रकारो यदचेतनानां सर्वेषां चेतनं द्वितीय - रूपमभिमानित्वप्रसिद्धं हिमवद्गङ्गादीनाम् । तच्चोचितचेतनविषयस्वरूप- योजनयोपनिबध्यमानमन्यदेव सम्पद्यते । यथा कुमारसम्भव एव पर्वत- स्वरूपस्य हिमवतो वर्णनं, पुनः सप्तर्षिप्रियोक्तिषु चेतनतत्स्वरूपापेक्षया प्रदर्शितं तदपूर्वमेव प्रतिभाति । प्रसिद्धश्चायं सत्कवीनां मार्गः । इदं


लोचनम्

न च तेषां घटतेऽवधिः, न च ते दृश्यन्ते कथमपि पुनरुक्ताः।
ये विभ्रमाः प्रियाणामर्था वा सुकविवाणीनाम् ॥

 चकाराभ्यामतिविस्मयस्सूच्यते। कथमपीति । प्रयत्नेनापि विचार्यमाणं पौन- रुक्तद्यं न लभ्यमिति यावत् । प्रियाणामिति । बहुवल्लभो हि सुभगो राधावल्लभप्रा. यस्तास्ताः कामिनीः परिभोगसुभगमुपभुजानोऽपि न विभ्रमपौनरुक्तयं पश्यति तदा । एतदेव प्रियात्वमुच्यते, अदाह-

बालप्रिया

मेवेति । प्रथमसर्ग इत्यर्थः । 'अवर्णितेति । तृतीयसर्ग इति शेषः । 'निरूपितरू- पसौष्ठवेति । सप्तमसर्ग इति शेषः। ते वर्णनप्रकाराः न च भासन्त इति सम्बन्धः । 'तस्य कवेरियते । कालिदासस्यापि कवेरित्यर्थः ।

 'ण' इत्यादेः छायाँ दर्शयति लोचने-न चेत्यादि । प्रियाणां विभ्रमाः कथमपि पुनरुक्ता न दृश्यन्त इत्येतद्विवृणोति-बहुवल्लभ इत्यादि । तदा विभ्रमपौनवक्त्यं न पश्यतीति सम्बन्धः । तदा परिभोगकाले । यदाहेति माघकविरिति शेषः ।