रचनायामपि काव्यव्यपदेशः प्रवर्तेत । शब्दार्थयोः साहित्येन काव्यत्वे
कथं तथाविधे विषये काव्यव्यवस्थेति चेत्-परोपनिबद्धार्थविरचने यथा
तत्काव्यत्वव्यवहारस्तथा तथाविधानां काव्यसन्दर्भाणाम् ।
न चार्थानन्त्यं व्यङ्गयार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति प्रतिपा. दयितुमुच्यते-
अवस्थादेशकालादिविशेषैरपि जायते । |
शुद्धस्यानपेक्षितव्यङ्गयस्यापि वाच्यस्थानन्त्यमेव जायते स्वभावतः । स्वभावो ह्ययं वाच्यानां चेतनानामचेतनानां च यदवस्थाभेदाद्देशभेदात्का लभेदात्स्वालक्षण्यभेदाच्चानन्तता भवति । तैश्च तथाव्यवस्थितैः सद्भिः प्रसिद्धानेकस्वभावानुसरणरूपया स्वभावोक्त्यापि तावदुपनिबध्यमानैर्नि-
लोचनम्
चतुरत्वं समाससघटना । मधुरत्वमपारुष्यम् । तथाविधानामिति । अपूर्वबन्धः च्छायायुक्तानामपि परोपनिबद्धार्थनिबन्धने परकृतकाव्यत्वव्यवहार एव स्यादित्य- र्थस्यापूर्वत्वमाश्रयणीयम् । कवनीयं काव्यं तस्य भावः काव्यत्वं, न त्वयं भावप्रत्य- यान्तात् भावप्रत्यय इति शङ्कितव्यम् ॥६॥
प्रतिपादयितुमिति । प्रसङ्गादिति शेषः । यदि वा वाच्यन्तावद्विविधव्यंग्यो- पयोगि तदेव चेदनन्तं तद्बलादेव व्यंग्यानन्त्यं भवतीत्यभिप्रायेणेदं प्रकृतमेवोच्यते । शुद्धस्येति । व्यंग्यविषयो यो व्यापारः तत्स्पर्शं विनाप्यानन्त्यं स्वरूपमात्रेणेव पश्चात्तु तथा स्वरूपेणानन्तं प्रत्ययं व्यनक्तीति भावः । न तु सर्वथा तत्र व्यंग्यं नास्तीति नन्तव्यमात्मभूततद्रूपाभावे काव्यव्यवहारहानेः; तथा चोदाहरणेषु रसष्व- नेस्सद्भावोऽस्त्येव । आदिग्रहणं व्याचष्टे-स्वालक्षण्येति ।स्वरूपेत्यर्थः । यथा रूपस्पर्शयोस्तीव्रैकावस्थयोरेकद्रव्यनिष्ठयोरेककालयोश्च ।
बालप्रिया
स्यादिति शेषः। लोचने भावं विवृणोति-अपूर्वबन्धेत्यादि । काव्यत्वमित्यस्य व्युत्पत्ति दर्शयति-कवनीयमित्यादि ॥ ६ ॥
कारिकास्थं शुद्धस्येति पदमन्यथाप्रतिपत्तिपरिहाराय व्याचष्टे-यंग्येत्यादि ।व्यापार इति । वाच्यस्येति शेषः। आत्मेति । आत्मभूतस्य व्यंग्यस्याभाव इत्यर्थः। हानिः अभावः । ननु कीदृशं व्यंग्यं तत्र भवतीत्यत्राह-तथांचेत्यादि । वृत्तौअ.नपेक्षितव्यंग्यस्येत्येतदप्युक्तरीत्या व्याख्येयम्। 'तैश्चेति । तैः वाच्यार्थैः । 'प्रथम