पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३७
चतुर्थोद्द्योतः


ध्वनेरित्थं गुणीभूतव्यङ्गयस्य च समाश्रयात् ।
न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः ॥६॥

 सत्स्वपि पुरातनकविप्रबन्धेषु यदि स्यात्प्रतिभागुणः, तस्मिंस्त्वसति न किञ्चिदेव कवेर्वस्त्वस्ति । बन्धच्छायाप्यर्थद्वयानुरूपशब्दसन्निवेशोs- र्थप्रतिभानाभावे कथमुपपद्यते । अनपेक्षितार्थविशेषाक्षररचनैव बन्धच्छा. येति नेदं नेदीयः सहृदयानाम् । एवं हि सत्यर्थानपेक्षचतुरमधुरवचन-


लोचनम्

अत्रद्भूतेन व्यङ्गयेन वाच्यमुपस्कृतं शान्तरसप्रतिपत्यङ्गत्वाच्चारु भवतीति नवत्वं सत्यप्यस्मिन् पुराणश्लोके जर।जीर्णशरीरस्य वैराग्य यन्न जायते, तन्नूनं हृदये मृत्यु- र्दृढन्नास्तीति निश्चयः ॥५॥

 सत्स्वपीत्यादि कारिकाया उपस्कारः। त्रीन् पादान् स्पष्टान्मत्वा तुर्यं पादं व्याख्यातुं पठति-यदीति । विद्यमानो ह्यसौ प्रतिभागण उक्तरीत्या भूयान् भवति, न त्यत्यन्तासन्नेवेत्यर्थः । तस्मिन्निति । अनन्तीभूते प्रतिभागुणे। न किञ्चिदे- वेति । स हि पुराणकविनैव स्पृष्टमिति किमिदानीं वर्ण्यं, यत्र कवेर्वर्णनाव्यापार- स्स्यात् । ननु यद्यपि वर्ण्यमपूर्वन्नास्ति, तथाप्युक्तिपरिपाकगुम्भघटनाद्यपरपर्यायव- न्धच्छाया नवनवा भविष्यति । यन्निवेशने काव्यान्तराणां संरम्भ इत्याशङ्कयाह- बन्धच्छायापीति । अर्थद्वयं गुणीभूतव्यंग्यं प्रधानभूत व्यग्यं च । नेदीय इति । निकटतरं हृदयानुप्रवेशि न भवतीत्यर्थः। अत्र हेतुमाह-एवं हि सतीति ।

बालप्रिया

इत्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् । तदिति जनः । तदेनान् तथाभूतान् फेनान् । फेन मिति तदेनमिति वा पाठः । सम्पश्यति अथ च सुखितमन्य हृदयः शिवो पायं नेच्छंश्च । अतः सुधीरः खल्वित्यन्वयः। यतेत्यद्भुते। जरेति । तदिति त. स्मादित्यर्थः । मृत्युर्नास्तीति निश्चयः हृदये दृढमस्ति नूनमित्यन्वयः ॥ ५ ॥

 उपस्कार इति । सत्स्वपीत्यादेः न काव्यार्थविरामोऽस्तीत्यनेनान्वय इति भावः । यदीत्यादेर्भाव विवृणोति-विद्यमान इत्यादि । वृत्तौ1 'बन्धच्छाये'त्यस्य विवरणम्-'अर्थद्वयानुरूपशब्दसन्निवेश' इति । तद्रूपा बन्धच्छायेत्यर्थः । 'अनपेक्षिते'- त्यादिशङ्काग्रन्थः । इतीदं सहृदयानां न नेदीय इति सम्बन्धः। पुनश्शङ्कते-'शब्दा- र्थयो रित्यादि । 'काव्यत्व' इति निमित्ते सप्तमी । शब्दार्थयोः सहितयोः काव्यत्वेन हेतुनेत्यर्थः । तथाविध' इति । अर्थानपेक्षचतुरमधुरवचनरचन इत्यर्थः । 'कव्यव्य- वस्थेति । काव्यव्यपदेश इत्यर्थः । समाधत्ते-'परे'त्यादि । 'तत्काव्यत्वेति तत्प- देन परः परामृश्यते। 'काव्यसन्दर्भाणामिति । तस्काव्यत्वव्यवहार इत्यनुषज्यते ।

 ६८ ध्व०