पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३४
सटीकलोचनोपेतध्वन्यालोके


तस्मास्थितमेतत्-अङ्गिभूतरसाद्याश्रयेण काव्ये क्रियमाणे नवार्थ- लाभो भवति बन्धच्छाया च महती सम्पद्यत इति । अत एव च रसा• नुगुणार्थविशेषोपनिबन्धमलङ्कारान्तरविरहेऽपि छायातिशययोगि लक्ष्ये दृश्यते । यथा-

मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः ।
येनैकचुलके दृष्टौ तौ दिव्यौ मत्स्यकच्छपौ ।

 इत्यादौ । अत्र ह्यद्भुतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं छा. यातिशयं पुष्णाति । तत्र ह्येकचुलके सकलजलघिसन्निधानादपि दिव्य- मत्स्यकच्छपदर्शनमक्षुण्णत्वाद्भुतरसानुगुणतरम् । क्षुण्णं हि वस्तु


लोचनम्

ङ्गागतभारतसम्बन्धनिरूपणानन्तरमुपसंहरति-तस्मात्स्थितमिति । अत इति । यत एवं स्थितं अत एवेदमपि यल्लक्ष्ये दृश्यते, तदुपपन्नमन्यथा तदनुपपन्नमेव, न च तदनुपपन्नम् ; चारूत्वेन प्रतीतेः। तस्याश्चैतदेव कारणं रसानुगुणार्थत्वमेवेत्याशयः। अलङ्कारान्तरेति । अन्तरशब्दो विशेषवाची । यदि वा दित्सिते उदाहरणे रसवद- ङ्लकारस्य विद्यमानत्वात्तदपेक्षयालङ्कारान्तरशब्दः ।

 ननु मत्स्यकच्छपदर्शनात्प्रतीयमानं यदेकचुलके जलनिधिसन्निधानं ततो मुनेर्मा- हात्म्यप्रतिपत्तिरिति न रसानुगुणैनार्थेन च्छायापोषितेत्याशङ्कयाह-अत्र हीति । नन्वेवं प्रतीयमानं जलनिधिदर्शनमेवाद्भुतानुगुणं भवत्विति रसानुगुणोऽत्र वाच्योऽर्थ इत्यस्मिन्नंशे कथमिदमुदाहरणमित्याशङ्कयाह-तत्रेति । क्षुण्णं हीति । पुनः पुन- र्वर्णननिरूपणादिना यस्पिष्टपिष्टत्वादतिनिर्भिन्नस्वरूपमित्यर्थः।बहुतरलक्ष्यव्यापकञ्चै-

बालप्रिया

लोकप्रसिद्धधनुरोधिनीति भावः । 'अत एवेत्यादि 'दृश्यत' इत्यन्तं विवृणोति-यत इत्यादि । तस्या इति । चाशरूत्वेन प्रतीतेरित्यर्थः । 'अलङ्कारान्तरविरहेऽपी'त्यत्रालङ्का- रान्तरशब्द द्वेधा विवृणोति-अलङ्कारान्तरशब्द इत्यादि ।

 इतीति हेतौ । नेत्यादि। किन्तूक्तेन व्यंग्यनैव छाया पोषितेति भावः । वृत्ती- 'अद्भुतरसानुगुणमिति । मुन्यालम्बितस्याद्भुतरसस्यानुगुणमित्यर्थः । काकतालीयेनेति भावार्थविवरणम् । 'प्रतिलग्न' इति । नायकपार्श्वेन सम्बन्ध इत्यर्थः । असीत्यव्ययं त्वमित्यर्थे । हे सुभग त्वं येन तस्या येन पाश्र्येण अतिक्रान्तः, तस्याः रथ्या तु- लाग्रप्रतिलग्नस्स पार्थोऽद्यापि स्विद्यतीत्याद्यन्वयः । 'परस्परेति । पार्श्वसम्बन्धाति- क्रमणेन नायकगतस्याप्यनुरागस्य प्रतीतेरिति भावः ।