लोकप्रसिद्याद्भुतमपि नाश्चर्यकारि भवति । न चाक्षुण्णं वस्तूपनिबध्य-
मानमद्भुतरसस्यैवानुगुणं यावद्रसान्तरस्यापि । तद्यथा-
सिज्जइ रोमञ्चिज्जइ वेवइ रत्थातुलग्गपडिलागो । |
एतद्गाथार्थाद्भाव्यमानाद्या रसप्रतीतिर्भवति, सा त्वां स्पृष्ट्वा स्विद्यति रोमाञ्चते वेपते इत्येवंविधादर्थात्प्रतीयमानान्मनागपि नो जायते ।
तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यानां नवत्वं जायते तथा प्रतिपादितम् । गुणीभूतव्यङ्ग्यस्यापि त्रिभेदव्यङ्ग्यापेक्षया ये प्रकारास्त. त्समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव । तत्त्वतिविस्तारकारीति नोदाहृतं सहृदयैः स्वयमुत्प्रेक्षणीयम् ।
लोचनम्
तदिति दर्शयति- चेत्यादिना। रथ्यायान्तुलाग्रेण काकतालीयेन प्रतिलग्नस्सा मुख्येन स पार्श्वोऽद्यापि सुभग तस्या येनास्यतिक्रान्तः । रसप्रतीतिरिति । परस्प- रहेतुकारप्रतीतिः । अस्यार्थस्य रसानुगुणत्वं व्यतिरेकद्वारेण द्रढयति- सा त्वा- मित्यादिना।
'ध्वनेर्यस्सगुणीभूतव्यङ्गयस्याध्या प्रदर्शित |
रत्युद्योतारम्भे यः श्लोकः तत्र ध्वनेरष्वना कवीनां प्रतिभागुणोऽनन्तो भवतीत्येष भागो व्याख्यात इत्युपसंहरति-तदेवमित्यादिना । सगुणीभूतव्यङ्ग्यस्येत्यमुं भागं व्याचष्टे-गुणीभूतेत्यादिना । त्रिप्रभेदो वस्त्वलङ्काररसात्मना यो व्यङ्गयः तस्य यापे- क्षा वाच्ये गुणीभावः तयेत्यर्थः । तत्र सर्वे ये ध्वनिभेदास्तेषां गुणीभावादानन्त्यभिति तदाह-अतिविस्तरेति । स्वयमिति । तत्र वस्तुना व्यंग्येन गुणीभूतेन नवत्वं सत्यपि पुराणार्थस्पर्शे यथा ममैष
-भअविहलरसूखणेककमल्लसरणागआणअथ्थाण । |
अत्र त्वमनवरतमर्थास्त्यजसीति औदार्यलक्षणं वस्तु ध्वन्यमानं वाच्यस्योपस्का-
बालप्रिया
त्रिभेदव्यंग्यापेक्षयेत्येतद्वद्याचष्टे-त्रिप्रभेद इत्यादि । भग्नविहलेति ।
भयविह्वलरक्षणैकमल्लशरणागतानामर्थानाम् । |
इतिछाया। इतीदंयुक्तमित्यत्र काक्वा इत्येतन्न युक्तमित्यर्थः । चाइअणेति ।