पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३३
चतुर्थोद्द्योतः


रामायणादिषु चानया सञ्ज्ञया भगवन्मृर्त्यन्तरे व्यवहारदर्शनात् । निर्णी- तश्चायमर्थः शब्दतत्त्वविद्भिरेव ।

 तदेवमनुक्रमणीनिर्दिष्टेन वाक्येन भगवध्व्यतिरेकिणः सर्वस्यान्यस्या- नित्यतां प्रकाशयता मोक्षलक्षण एवैकः परः पुरुषार्थः शास्त्रनये, काव्य- नये च तृष्णाक्षयसुखपरिपोषलक्षणः शान्तो रसो महाभारतस्याङ्गित्वेन विवक्षित इति सुप्रतिपादितम् । अत्यन्तसारभूतत्वाच्चायमोर्थो व्यङ्गयत्वेनैव दर्शितो न तु वाच्यत्वेन । सारभूतो ह्यर्थः स्वशब्दानभिधेयत्वेन प्रका- शितः सुतरामेव शोभामावहति । प्रसिद्धिश्चेयमस्त्येव विदग्धविद्वत्परिव- त्सु यदभिमततरं वस्तु व्यङ्गयत्वेन प्रकाश्यते न साक्षाच्छब्दवाच्यत्वेन ।


लोचनम्

 इत्यादौ अंशिरूपमेतत्संज्ञाभिधेयमिति निर्णीतं तात्पर्यम् । निर्णीतश्चेति । श- - ब्दा हि नित्या एव सन्तोऽनन्तरं काकतालीयवशात्तया सङ्केतिता इत्युक्तम्-"ऋष्य- न्धकवृष्णिकुरुभ्यश्चेत्यत्र ।

 शास्त्रनय इति । तत्रास्वादयोगाभावे पुरुषेणार्थ्यत इत्ययमेव व्यपदेशः साद. रः, चमत्कारयोगे तु रसव्यपदेश इति भावः । एतच्च ग्रन्थकारेण तत्त्वालोके वित- क्योक्तमिह त्वस्य न मुख्योऽवसर इति नास्माभिस्तदर्शितम् । सुतरामेवेति यदुक्तं तत्र हेतुमाह-प्रसिद्धिश्चेति । चशब्दो यस्मादर्थे । यत इयं लौकिको प्रसिद्धिरना- दिस्ततो भगवव्द्यासप्रभृतीनामप्ययमैवास्वशब्दाभिधाने आशयः, अन्यथा हि क्रि- याकारकसम्बन्धादौ 'नारायणं नमस्कृत्येत्यादिशब्दार्थनिरूपणे च तथाविध एव तस्य भगवत आशय इत्यत्र किं प्रमाणमिति भावः । विदग्धविद्वद्ग्रहणेन काव्यनये शास्त्रनय इति चानुसृतम् । रसादिमय एतस्मिन् कविः स्यादवधानवानिति यदुक्तं, तदेव प्रस-

बालप्रिया

'गीतादिप्रदेशान्तरेषुः इत्यादिकं विवृणोति लोचने-बहूनामित्यादि । काकताली. यवशादिति यदृच्छयेत्यर्थः । इत्यत्रोक्तमिति सम्बन्धः। काशिकावृत्ताविति शेषः ।

 शास्त्रनये मोक्षः पुरुषार्थः, काव्यनये तु शान्तोरस इत्युक्तं विवृणोति-तत्रेत्यादि। सादर इति । अर्ह इत्यर्थः । यस्मादर्थ इति । हेत्वर्थक इत्यर्थः । अयमेवेति । उक्ता विदग्धविद्वत्परिषत्प्रसिद्धिरेवेत्यर्थः । अस्वशब्दाभिधाने अभिमतस्यार्थस्य स्वशब्देनानभिधाने । आशयः अभिमतो हेतुः । अत्रोपचम्भकमाह-अन्यथेत्यदि। 'नारायणं नमस्कृत्येत्यादिश्लोकेषु नारायणाद्यर्थस्य क्रियाकारकभावादिसम्बन्धेन नम- स्कारादावन्वयो विवक्षितः। एवं नारायणादिपदानां विष्ण्यादयोऽर्थाश्च तद्विवक्षा च