पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३२
सटीकलोचनोपेतध्वन्यालोके


रस्येत्यमुमेवार्थ द्योतयन् स्फुटमेवावभासते व्यञ्जकशक्त्यनुगृहीतश्च शब्दः। एवंविधमेवार्थं गर्भीकृतं सन्दर्शयन्तोऽनन्तरश्लोका लक्ष्यन्ते-'स हि सत्यम्' इत्यादयः

 अयं च निगूढरमणीयोऽर्थो महाभारतावसाने हरिवंशवर्णनेन समाप्तिं विदधता तेनैव कविवेधसा कृष्णद्वैपायनेन सम्यक्स्फुटीकृतः । अनेन चार्थन संसारातीते तत्त्वान्तरे भक्त्यतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्वपक्षीकतो न्यक्षेण प्रकाशते । देवतातीर्थतपः- प्रभृतीनां च प्रभावातिशयवर्णनं तस्यैव परब्रह्मणः प्राप्त्युपायत्वेन तद्वि. भूतित्वेनैव देवताविशेषाणामन्येषां च । पाण्डवादिचरितवर्णनस्यापि वैरा- ग्यजननतात्पर्याद्वैराग्यस्य च मोक्षमूलत्वान्मोक्षस्य च भगवत्प्राप्त्युपाय- त्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात्परब्रह्मप्राप्त्युपायत्वमेव । परम्परया वासुदेवादिसब्ज्ञाभिधेयत्वेन चापरिमितशक्त्यास्पदं परं ब्रह्म गीतादिप्रदे शान्तरेषु तदभिधानत्वेन लब्धप्रसिद्धि माथुरप्रादुर्भावानुकृतसकलस्वरूपं विवक्षितं न तु माथुरप्रादुर्भावांश एव, सनातनशब्दविशेषितत्वात् ।


लोचनम्

तु न दोष इत्यर्थः । विभूतिषु रागिणो गुणेषु च निविष्टधियो मा भूतेति सम्बन्धः । अग्र इति । अनुक्रमण्यनन्तरं यो भारतग्रन्थः तत्रेत्यर्थः । ननु वसुदेवापत्यं वासु- देव इत्युच्यते, न परमेश्वरः परमात्मा महादेव इत्याशङ्कयाह-वासुदेवादिसंज्ञामि. धेयत्वेनेति ।

बहुनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

वासुदेवस्सर्वम्

बालप्रिया

सम्बन्धः । अन्वयं दर्शयति-विभूतिष्वित्यादि । वृत्तौ तथाचेत्यादि । द्योतयम् शब्दोऽवभासत इति सम्बन्धः । 'न्यक्षेणेति । कार्त्स्यतेत्यर्थः । प्राप्त्युपायत्वेन वर्ण- नमित्यन्वयः । देवताविशेषाणामित्यत्र प्रभावातिशयवर्णनमित्यनुषज्यते । 'मोक्ष. स्येति । अज्ञाननिवृत्तरित्यर्थः । वासुदेवसंज्ञाभिधेयत्वेन ब्रह्म विवक्षितमित्यन्वयः । 'तदभिधानत्वेन वासुदेवसंज्ञाभिधेयत्वेन । माथुरो यः प्रादुर्भावस्तेनानुकृतं सकलस्व- रूपं येन तत् । 'न त्वि'त्यादि । 'विवक्षित' इति विपरिमाणामेनानुषङ्गः । हेत्वन्तरम- प्याह--'रामयणादिष्वित्यादि । 'पुरुषार्थ' इति 'विवक्षित इत्यनेनास्य सम्बन्धः ।