पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३०
सटीकलोचनोपेतध्वन्यालोके


सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता । महाभारतेऽपि शान- रूपं काव्यच्छायान्वयिनि वृष्णिपाण्डवविरसावसानवैमनस्यदायिनी समा- प्तिमुपनिबध्नता महामुनिना वैराग्यजननतात्पर्य प्राधान्येन स्वप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थः शान्तो रसश्च मुख्यतया विवक्षाविषय- देवेन सूचितः । एतच्चांशेन विवृतमेवान्याख्याविधायिभिः । स्वयमेव- चैतदुरोण तेनोदीर्णमहामोहमग्नमुज्जिहीर्षता लोकमतिविमलज्ञानालोक. दायिना लोकनायेन-

यथा यथा विपयेति लोकतन्त्रमसारवत् ।
तथा तथा विरागोऽत्र जायते नात्र संशयः ॥


लोचनम्

अत्यन्तग्रहणेन निरपेक्षभावतया विप्रलम्भाशङ्का परिहरति । वृष्णीनां परस्प. रक्षयः, पाण्डवानामपि महापथक्लेशेनानुचिता विपत्तिः, कृष्णस्यापि व्याधाद्विध्वंस इति सर्वस्यापि विरसमेवावसानमिति । मुख्यतयेति । यद्यपि "धर्मे चार्थे च कामे च मोक्षे चे"त्युक्त, तथापि चत्वारश्चकारा एवमाहुः--यद्यपि धर्मार्थकामानां सर्वस्व ता नास्ति यदन्यत्र न विद्यते, तथापि पर्यन्त विरसत्यमवालोक्यताम् । मोक्षे । यद्रूपं तस्य सारतानव विचार्यतामिति । वस्तुभूततयाभिमतमपि । येन येनार्जनरक्षणक्षयादिना प्रकारेण । असारवत्तुच्छेन्द्रजा-

बालप्रिया

यथायथेति । लोकेस्तन्थ्यमाणं यत्नेन सम्पाद्यमानन्धर्मार्थकामतत्साधन लक्षण लादिवत् । विपयेति । प्रत्युत विपरीतं सम्पद्यते । आस्तान्तस्य खरूपचिन्तेत्यर्थः । तेन तेन प्रकारेण अत्र लोकतन्त्रे। विरागो जायत इत्यनेन तत्वज्ञानोत्थितं निर्वेद

वृष्णिपाण्डवविरसावसानेत्युक्तं विवृणोति-वृष्णीनामित्यादि । मोक्षलक्षणः पुरु- पार्थों मुख्यतया विवक्षाविषयत्वेन सूचित इति यदुक्तं तस्यानुपपत्तिमाशंक्य परिह- 'सीतात्यन्तवियोगपर्यन्तमित्यत्रात्यन्तग्रहणफलमाह-अत्यन्तग्रहणेनेत्यादि । रति-यद्यपीत्यदिना। मोक्षे चेत्युक्तमिति । क्वचिद्मन्थे भरतर्षभ यदिहास्ति विशेष द्योतयन्तीत्यर्थः। सर्वस्वमिति । प्रधान स्वरूपमित्यर्थः । नास्तीति । त्राप्यस्तीति भावः । द्योत्यं विशेष दर्शयति-तथापीत्यादि । पर्यन्तविरसत्व- मिति । धर्मार्थकामानामित्यनुषज्यते । लोकतन्त्रमित्येतझ्याचष्टे-लोकैरित्यादि । तदन्यत्र यन्नेहास्ति न तत् क्वचिदिति च पाठः । । वक्ष्यमार्ण अत्रेति शेषः । यदन्यत्र न विद्यते ताहगन नास्तीति सम्बन्धः ।