इत्यादि बहुशः कथयता । ततश्च शान्तो रसो रसान्तरैर्मोक्षलक्षणः
पुरुषार्थः पुरुषार्थान्तरैस्तदुपसर्जनत्वेनानुगम्यमानोऽङ्गित्वेन विवक्षाविषय
इति महाभारततात्पर्य सुव्यक्तमेवावभासते । अङ्गाङ्गिभावश्च यथा रसानां
तथा प्रतिपादितमेव ।
पारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषा- र्थस्य च स्वप्राधान्येन चारुत्वमप्यविरुद्धम् । ननु महाभारते यावान्विव. शाविषयः सोऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत्र दृश्यते, प्रत्युत सर्व- पुरुषार्थप्रबोघहेतुत्वं सर्वरसगर्भस्वं च महाभारतस्य तस्मिन्नुद्देशे स्वश- ब्दनिवेदितत्येन प्रतीयते । अत्रोच्यते -सत्यं शान्तस्यैव रसस्याङ्गित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थेभ्यः प्राधान्यमित्येतन्न स्वशब्दाभिधे. यत्वेनानुक्रमण्या दर्शितम् , दर्शितं तु व्यङ्गयत्वेन-
'भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः' |
इत्यस्मिन् वाक्ये । अनेन ह्ययमर्थो व्यङ्ग्यत्वेन विवक्षितो यदत्र महाभारते पाण्डवादिचरितं यत्कीर्त्यते तत्सर्वमवसानविरसमविद्याप्रपञ्च- रूपञ्च, परमार्थसत्यस्वरूपस्तु भगवान् वासुदेवोऽत्र कीर्त्यते । तस्मा- त्तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो, मा भूत विभू-. तिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु केषुचित्सर्वात्मना प्रतिनिविष्टघियः । तथा चाग्रे-पश्यत निःसारतां संसा-
लोचनम्
शान्तरसस्थायिनं सूचयता तस्यैव च सर्वतरासारत्वप्रतिपादनेन प्राधान्यमुक्तम् ।
ननु शृङ्गारवीरादिचमत्कारोऽपि तत्र भातीत्याशयाह-पारमार्थिकेति । भोगाभिनिवेशिनां लोकवासनाविष्टानामाङ्गभूतेऽपि रसे तथाभिमानः, यथा शरीरे प्रमा. तृत्वाभिमानः प्रमातुर्भोगायतर्नमात्रेऽपि । केवलेष्विति । परमेश्वरभक्त्युपकरणेषु
बालप्रिया
वस्तुभूततयेति । परमार्थतयेत्यर्थः । तुच्छेति । तुच्छं शशश्रृङ्गादि । तस्यैवेति । शान्तरसस्यैवेत्यर्थः।
पारमार्थिकत्यादिग्रन्थमवतारयति-नन्वित्यादि। तत्र महाभारते । भावं विवृणोति-भोगेत्यादि । तथाऽभिमानः प्राधान्यामिमामः । मात्रेऽपि शरीरे इति